________________
३०२
प्रमाणवात्तिकस्ववृत्तिटीका (१।१५४) मात्रगतो वा, अाकाशादिवत् सर्वत्र भावकल्पना स्यात् ।
___ न याति न च तत्रासीदस्ति पश्चात; तत्र यदि स्वाश्रयमात्रगश्तकाले पक्षयोघटादिशून्ययोः घटादेरुत्पादे कथं भिन्नदेशद्रव्यवत्तिनः सामान्यस्य तेषु सम्भवः ? स्वतः पूर्वद्रव्यात् उत्पद्यमानं द्रव्ये न याति । निष्क्रिय त्वाभ्युपगमात् । यस्मात् अन्यत्रभावात् तस्मादचलतः उभयान्तरालाव्यापिनो भिन्नदेशेन द्रव्येण योगो न युक्तः । प्राक् न च स तत्रासीत,
तेन यत्रैव दृश्येत व्यक्तिः शक्तन्तदेव तु । तेनैव च न सर्वासु व्यक्तिष्वेतत् प्रतीयते। भिन्नत्वेपि हि कासांचिच्छक्तिः काश्चिदशक्तिकाः। न च पर्यनुयोगोस्ति वस्तुशक्तेः कदाचन।
वह्निर्दहति ॥ (? ना) काशं कोत्र पर्यनुयुज्यता"मिति।' तत्र तयोः पक्षयोर्मध्ये यदि स्वाश्रयमात्रगतं अपूर्वघटाद्युत्पत्तौ घटत्वादिशून्ये प्रदेशे पश्चादुत्पन्नाद् घटादेभिन्नदेशं यद् द्रव्यन्तत्तिनः सामान्यस्य। कथन्तेषु पश्चादुत्पन्नेषु घटादिषु सम्भवो नैवेत्यभिप्रायः। भवेत् सम्भवो यदि तस्मात् पूर्वद्रव्यात् तत्सामान्यम्पश्चादुत्पद्यमानन्द्रव्यं याति। तच्च नास्तीत्याह। यस्मादि
त्यादि। तदिति सामान्यं पूर्वद्रव्यादिति यत्र तत्पूर्वं समवेतं तस्मादुत्पित्सु द्रव्य'. IIIb मुत्पत्तुमिच्छु पूर्व घटादिकं न याति । अमूर्त्तत्वेन निष्क्रियत्वात् सामान्यस्य (1)
पूर्वद्रव्यादचलतोपि भिन्नदेशेन योगो भविष्यति विम्बस्यादर्श इवेति चेदाह। न हीत्यादि। अन्यद्रव्यवृत्तेरित्युत्पित्सुद्रव्याद् भिन्नदेशद्रव्यवृत्तेर्भावस्य सामान्याख्यस्य ततः पूर्वक़ादाश्रयादचलतस्तदुभयान्तरालाव्यापिनः पूर्वपश्चादुत्पन्नद्वयान्तरालाव्यापिनः स्वाश्रयाद् भिन्नदेशेन द्रव्येण योगो न हि यक्त इति सम्बन्धः। बिम्बस्य तु भिन्नदेश भादर्शन योगोस्तीति ब्रुवाणः कथन्नोन्मतः स्यात्। सामग्रीबलाद् भ्रान्तं ज्ञानं प्रतिबिम्बानुगतादर्शप्रतिभासि तत्र जायते। यथोक्तं (1)
"विरुद्धपरिणामेषु वज्रादर्शतलादिष (1)
पर्वतादिस्वभावानां भावानां नास्ति सम्भव" इति । येपि तत्र भावान्तरोत्पत्तिमिच्छन्ति (1) तेषामपि न बिम्बन योगोस्तीति यत्किञ्चिदेतत्। उत्पित्सुद्रव्यात् प्राक् सामान्यात्मा न च तत्रोत्पित्सुदेशे आसीत्। व्यक्तिशून्ये देशे तस्य स्थानानभ्युपगमात् । अस्ति पश्चात् तत्सामान्यं
1Slokavartika. Akrti. 25-29