________________
४. सामान्यचिन्ता
३०१
भावकल्पनायामेव अपरत्र भावात् । अन्यच्च सामान्यान्यप्रतिपत्तिरियं स्वाश्रय
नित्यप्रधानादिकार्यशशविषाणादिविकल्पानाम्भेदविषयत्वस्य भावात्। स्वाश्रयमागतव्यक्तिभेद एव स्थितं । न तु व्यक्तिशून्ये देशे। तदुक्तं भट्टे न।
"पिण्डेष्वेव च सामान्यं नान्तरा गृह्यते यतः। न ह्याकाशवदिच्छन्ति सामान्यनाम केचन ॥ (आकृ० २५) प्रत्येकसमवेतत्वन्दृष्टत्वान्न निरोत्स्यते।। तथा च सति नानात्वन्नैकबुद्धर्भविष्यति ॥ (वन० ३०) यथा च व्यक्तिरेकैव दृश्यमाना पुनः पुनः।
कालभेदेप्यभिन्नव जातिभिन्नाश्रया सती"ति ॥' (वन० ३३) उ द्यो त क रो प्याह।२ “केन सर्वगतत्वं जातेरभ्युपगम्यते येन (मृत्पिण्डे) मृद्गवके गोत्वं स्यादपि तु स्वविषये सर्वत्र वृत्तिवर्तत इति सर्वगतेत्युच्यते। कः 'पुनर्गोत्वस्य स्वो विषयः। यत्र गोश्त्वम्भवति। क्व पुनर्गोत्वम्वर्त्तते। यत्र गोत्वनिमित्तोनुवृत्तिप्रत्यययो भवति । क्व पुनरनुवृत्तिप्रत्ययं गोत्वं करोति (1) यत्तस्य साधनं। कः पुननित्ये गोत्वे गोस्साधनार्थः । यत्तेन व्यज्यते। न हि ककुदादिमदर्थव्यतिरेकेण गोत्वस्य व्यक्तिरिति। न पिण्डेभ्योर्थान्तरं गोत्वम्पिण्डान्तरालेष्वग्रहणादिति बौद्धो ब्रुवाणः पिण्डान्तरालम्पर्यनुयोज्यः। किमिदम्पिण्डान्तरालं। किमाकाशमाहोस्विदभाव उत द्रव्यान्तरमिति। यद्याकाशं न तत्र गोत्वं न ह्याकाशं गौरिति प्रतीयते। एतेनाभावो द्रव्यान्तरं च व्याख्यातं ।
“विशेषप्रत्ययानामाकस्मिकत्वाच्च । अयं पिण्डप्रत्ययव्यतिरेकभाक् प्रत्यय उपजायमानो निमित्तान्तराद् भवति । दृष्टा खलु पिण्डव्यतिरेकभाजां प्रत्ययानां निमित्तान्तरादुत्पत्तिर्यथा चर्मवस्त्रक-म्बलेषु नीलप्रत्ययस्तच्च निमित्तान्तरं सामान्यमिति (1) तस्माद् व्यक्तिसर्वगतं सामान्यं । व्यक्तिशून्येपि देशे विद्यमानत्वात् । न च तत्र सामान्यस्य प्रतीतिर्व्यञ्जिकाया व्यक्तेरभावात् । यत्रैव च व्यक्तौ सामान्य प्रतीयते सैव सामान्याभिव्यक्ती समर्था सामान्यप्रतिपत्त्यन्यथानुपत्या गम्यते नान्ये"ति। तदाह भट्टः।
"यद्वा सर्वगतत्वेपि व्यक्तिः शक्त्यनुरोधतः । शक्तिः कार्यानुमेयादिव्यक्तिदर्शनहेतुका।
1 Ślokavārtika.
2 Nyāyavārtika.