________________
३००
प्रमाणवार्त्तिकस्ववृत्तिटीका (१।१५३ )
पणं प्रति कश्चिदादरः । क्वचिदस्या श्रविसंवादो वस्तुनि । तथाभूतस्य ग्रहणं न नियमात् । प्रत्यक्षवेदनावत् । श्रतथाभावेऽपि भावादिति निवेदयिष्यामो निवेदितं
च ।
भेदविषयोऽप्ययं बहुलं भिन्नवस्तुदर्शनबलेन तेषु भावाध्यवसायात् ।
2 तथा
मर्थवती सामान्यबुद्धिः । तया यथारोपितस्याभिन्नाकारस्य बाह्येष्वभावभा ( ? ) वादतश्चाभूतग्रहाद् । विप्लवो भ्रान्तिरेवेति कृत्वा । नास्यास्सामान्यबुद्धेर्निर्विषयाया विषयनिरूपणं प्रति कश्चिदावरः । यदि सर्वैव सामान्यबुद्धिर्भ्रान्ता कथतर्ह्यनुमानाद् वस्तुसम्वाद इत्याह । क्वचिदित्यादि । क्वचिद् वस्तुन्यस्य बुद्धेः सका शादविसम्वादो यस्म (ात्) कार्यकारणसम्बद्धाद् यथोक्तात् । एतच्च निवेदितं प्राक् । " यत्रास्ति वस्तुसम्बन्धो यथोक्तानुमितौ यथेत्यादिना ( ११८३) । न तथाभूतस्याभिन्नरूपस्यानुमानग्राह्यस्य वस्तुनि समावेशाद् विद्यमानत्वादनुमानविकल्पस्य वस्तुविसम्वादः । प्रत्यक्षवविति । वैधर्म्यदृष्टान्तः । किङ्कारणम् (1) अतथाभावेपीति व्यतीतेपि वस्तुनि परम्परया लिङ्गानुसारेण भावात् । यद्वाsतथाभावेपि सामान्यरहितेऽपि वस्तुन्यभिन्नाकाराया बुद्धेर्भावात् । इति एवं । निवेदयिष्यामः । निवेदितं च प्राक् । भावाभावानुविधानात् सामर्थ्यमित्यन्तरे (1)
यदि सामान्यबुद्धिः स्वाकाराभेदेन भिन्नान् भावानभिन्नानध्यस्य विधिरूप तया प्रतिपद्यते कथमस्या अन्यापोहविषयत्वमुक्तमित्यत आह । भेवेत्यादि । अस्याः सामान्यबुद्धेभिन्नपदार्थदर्शनबलेनेति विजातीयव्यावृत्तस्वलक्षणानुभवसामर्थ्येन । उत्पत्तेरित्यध्याहारः । बहुलग्रहणम्वस्त्वभावेपि शशविषाणादौ विकल्पबुद्धेः प्रवृत्तिख्यापनार्थं । तेषु भिन्नेषु स्वलक्षणेषु भावाध्यवसायात् स्वाकाराभेदेन स्वरूपाध्यवसायात्। दृश्यविकल्पयोरेकीकृत्य प्रवृत्तेरित्यर्थः । यस्माद् भिन्नवस्तुदर्शनबलेनोत्पद्यते बुद्धिरुत्पन्ना च तान्येव भिन्नवस्तूनि स्वाकाराभेदेन प्रतिपद्यते (1) तस्माद् भेदविषयत्वम्भिन्नविषयत्वमित्यर्थः । युक्तन्तावद्वस्तुदर्शनद्वारायातेष्वनित्यादिविकल्पेषु वस्तुदर्शनबलोत्पत्तेर्भेदविषयत्वं । यत्र तु न तथाभूतम्भिन्नम्वस्तु । यथा नित्यादिविकल्पेषु । शशविषाणादिविकल्पेषु च ( 1 ) तत्र कथम्भेदविषयत्वं तेषामिति चेदाह । तथा भावेत्यादि । यथैव भिन्नवस्तुस्वभावग्राह्यानुभवबलेनोत्पन्ना अनि त्यादिबुद्धयः स्वप्रतिभासे भिन्नभावाध्यवसायेन प्रवर्त्तमाना भेदविषयाः । एवन्तथा 1112 भावकल्पनायामेव स्वप्रतिभास एव भिन्नबाह्यभावाध्यवसायकल्पनायां सत्यां भिन्नविषयत्वे सत्यपरत्रेति अविद्यमानेषु नित्यप्रधानकार्यादिषु शशविषाणादिषु च