________________
४. सामान्यचिन्ता
किनेति चेत्, तेनाप्यवश्यं तत्र भेदो नान्तरीयकतयेष्टव्यः, स एव सामान्यकार्ये पर्याप्तः इत्येवं निष्प्रयोजना सामान्यकल्पना ।
यदि सत्स्वसत्षु भावेषु नेयमर्थती सामान्यबुद्धिः विप्लवात् । नास्या विषयनिरू- 466a
२६६
अन्यापोहवादिनस्तु न दोष इत्याह । तथेत्यादि । प्रधानादिकार्यत्वकल्पनयेत्यर्थः । तदन्यस्याप्रधानादिकार्यस्य भेदो व्यवच्छेदः प्रधानादिकार्यत्वेनारोपितानाम्भावानां प्रतिपत्तॄणामध्यवसायवशात् स्यात् ।
तदध्यवसायवशादेव प्रतिपपत्रध्यवसायवशादेव शावलेयादिष्वनुवृत्तिप्रत्ययनिमित्तं सामान्यं किन्नेति चेत् ।
नैतदस्ति । यस्मात् तेन सामान्यवादिना सामान्यं कल्पयताप्यवश्यं तत्र शाबलेयादिषु विजातीयाद् भेदो नान्तरीयकतयेष्टव्योन्यथा गोत्वादेरसिद्धिः स्यात् । स एव भेद: सामान्यकार्येऽभिन्नशब्दप्रवृत्त्यादिलक्षणे पर्याप्त शक्तः । इत्येवं निष्प्र• योजना सामान्यकल्पना ।
एतदुक्तम्भवति । यथा प्रधानकार्येष्वपि भावेषु सामान्यमन्तरेण प्रधानादिकार्यशब्दास्तद्बुद्धयश्चैकाकाराः प्रवर्त्तन्ते । तथा गवादिषु गवादिशब्दास्तद्बुद्धयश्चैकाकाराः किन्नेष्यन्ते किं सामान्येन पारमार्थिकेन कल्पितेन । दृष्टा च परैरपि सामान्यमन्तरेण बहुषु सामान्येष्वभिन्नाभिधानप्रत्ययवृत्तिः ।
तदुक्तम्भ ट्टो द्योतक राभ्यां
" तस्मादेकस्य भिन्नेषु या वृत्तिस्तन्निबन्धनः ।
सामान्यशब्दः सत्तादावेकधीकरणेन वेति ।" श्लोक वा० कृ० २४ तेनायमर्थः ( 1 ) यथा प्रत्येक मनेकार्थसमवायित्वेन सत्त्वद्रव्यत्वादौ सामान्यशब्दस्तद्बुद्धिश्च सामान्यमन्तरेण प्रवर्त्तेते ( 1 ) न चानेकार्थसमवायित्वं सामान्यं यदेव सत्त्वे तदेव द्रव्यत्वादावस्ति । निःसामान्यानि सामान्यानीति वचनात् । न चोपचारात्तयोः (शब्दज्ञानयोः ) वृत्तिरस्खलद्बुद्धिग्राह्यत्वात् । तस्माद् यथा सामान्यं विना तयोः सत्तादौ वृत्तिस्तथा शाबलेयादिषु सामान्यमन्तरेण ( 1 ) 110b यथा शाबलेयोऽगोव्यावृत्तस्तथा बाहुलेयोऽगोव्यावृत्तस्तथा खण्डोऽगोव्यावृत्त इत्य भिन्नाभिधानप्रत्ययवृत्तिः किन्नेष्यत इत्यर्थः ।
स्यादेतत् (1) सर्वत्र सामान्यबुद्धिनिर्विषयेष्टैव केवलं सामान्यमन्तरेण क्वचिदविसम्वादो न स्यादित्यत आह । यदीत्यादि । यदिशब्दोभ्युपगमद्योतनार्थः । 1 यद्यस्यास्सर्वत्र निर्विषयत्वमभ्युपगम्यते । सत्स्विति विद्यमानेषु भावेष्वगोव्यावृतेषु । असत्स्विति परमार्थतः प्रधा ने श्व रा दिकार्यतयाऽविद्यमानेषु भावेषु । नेय