________________
२६८ __ प्रमाणवात्तिकस्ववृत्तिटीका (१।१५३) ___ तेऽपि संकेतवत् सन्तानवासनयोपस्कृतत्वाद् सर्वेषामर्थानां दर्शनेषु अनपेक्ष्य तद्भदं तथाध्यवसायात् अतथाभूतकल्पितव्यवच्छेदेन उपादानबलप्रभवा विकल्पारोपिता हि विकल्पविज्ञानप्रतिभासिन्यर्थे वर्तन्ते ।
नहि तेषु अतथाभूतेषु सामान्यस्य भेदोऽभेदो वा कश्चित् । तथाभूतविकल्पान्तरेण भेदोऽपि प्रतिपत्तॄणामध्यवसायवशात् स्यात् । तदध्यवसायादेव चेत् सामान्य
वासना प्रकृतिः साक्षादिति द्वयमपन्यस्तं। यद्यन्यापोह एव शब्दवाच्यः कथन्तहींदानीमित्यादि। प्रधानेश्वरादिकार्यशब्दा इति प्रधान कार्य मी श्व र कार्यञ्जगदिति। आदिशब्दाच्छ ब्द ब्रह्मपरिणाम इत्यादिशब्दानां परिग्रहः ।
भावेष्वाध्यात्मिकबाह्येषु। अतद्भुतोऽप्रधानादिकार्यात्मको भेदो येषान्ते तथोक्ताः। यद्यप्यप्रधानकार्यात्तेषां भेद: स्यात् तदा भवेत् प्रधानादिकार्यात्मको भेदः (1) स एव च सर्वेषामभेदः । तेनाभेदेनानिमित्तेन सर्वत्र वर्तन्ते। स च नास्ति भावानामन्यापोहवादिनो मतेनाप्रधानादिकार्यात्मकत्वात्। ततश्च कथमेवंभूतेष्वभेदेन वर्तन्ते। नैवेत्यभिप्रायः । ततश्चाव्यापिन्यपोहव्यवस्थेति भावः।
तेपीत्यादिना परिहरति । तेपि प्रधानादिकार्यशब्दा विकल्पविज्ञानप्रतिभासिन्यर्थे प्रवर्त्तन्ते इति सम्बन्धः। कथमित्याह (1) संकेतेत्यादि। वस्तुन्यतथाभूते। इच्छावशाद् यः संकेतः प्रधानकार्य जगदिति । तेनाहिता या वासनाशक्तिस्तयोत्तरोत्तरक्षणविप'रिणामेनोपस्कृतत्वाद् विज्ञानसन्ततेः सर्वेषां बाह्याध्यत्मिकानामर्थानां दर्शनेष्वनुभवेषु सत्स्वप्यनपेक्ष्य तभेदमप्रधानकार्याद् भेदम्वस्तुगतं । यदि नामार्थानामप्रधानकार्याणामेव दर्शनम्वस्तुधर्मेण तथापि वस्तुस्वभावमनपेक्ष्येत्यर्थः (।) तथाध्यवसायाद् यथासंकेतमप्रधानकार्यानपि भावान् प्रधानकार्यत्वेनाध्यवसानात्। अतथाभूतकल्पितप्रधानकार्यत्वेन कल्पितं चैतन्यं सां ख्ये न तस्य व्यवच्छेदेन प्रधानकार्याभावा इति यद् विकल्पविज्ञानन्तत्प्रतिभासिन्यर्थे । स एव विजातीयव्यवच्छेदेनान्यापोह इति भावः । किं भूतास्ते शब्दा इत्याह । उपादानेत्यादि। विकल्पहेतोर्वासनाया दाढर्यमुपादानबलन्तस्मात् प्रभव उत्पादो यस्य विकल्पस्य तस्मात् समुत्थिताः ___ एतदुक्तम्भवति । यदि नाम वस्तुनि तथाभूतभेदाभाथ्वस्तथापि विकल्पारोपित एवान्यापोहः शब्दानां प्रवृत्तेरङ्गन्ततो नास्याव्यापितादोष इति। प्रधानादिकार्यशब्दानामभेदेन प्रवृत्तौ तेषु भावेषु सामान्यमेव वस्तुभूतं किन्नेष्यत इति चेदाह। न हीत्यादि। तेषु प्रधानकार्यत्वेनाध्यारोपितेषु । अतथाभुतेष प्रधानकार्येषु व्यक्त्यभावात् सामान्यस्याभाव इति भावः ।