________________
४. सामान्यचिन्ता
२६७
क्वचिदप्यनाश्रयात् श्रन्यस्यापि केनचित् श्रनुपकार्य' (त्व) त् व्यङग्यव्यञ्जक - 465b भावादेः श्रन्यस्यापि सम्बन्धस्याभावात्, प्रसम्बन्धात्तु न ज्ञानजननप्रसंगात् । तद् एकस्य वस्तुनो दर्शनेन एक वृत्तस्य श्रन्यत्र वृत्तिमन्विच्छन्, तत्त्वान्यत्व आक्रामतीति न युक्तमेतद् ।
तस्मादर्थेषु इयमेकाकारा वासनाऽऽहिता प्रतीतिर्भ्रान्तिरेव । भावभेदो वासनायाः प्रकृतिश्चास्या श्राश्रय इति निर्णीतमेतत् । प्रधानेश्वरादिकार्यशब्दा भावेषु तद्भतभेदेषु कथमभेदेन वर्त्तन्ते ।
नापि व्यतिरेकिणः सामान्याद् अन्वयिनी बुद्धिरिति प्रकृतं । कस्मात् ( 1 ) तस्य व्यतिरिक्तस्य सामान्यस्य क्वचिद् भेदेऽनाश्रयाद प्रवृत्तेः ( 1 ) सम्बन्धमन्तरेण प्रवृ ' - त्ययोगात् । “वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यत" इत्यादिना च व्यङ्ग्य - 1o9b व्यञ्जकस्याधाराधेयभावस्य च सम्बन्धस्य निषिद्धत्वात् । अन्यस्तर्हि सामान्य' तद्वतोः सम्बन्धो भविष्यतीति चेदाह । अन्यस्यापीत्यादि । व्यङग्यव्यञ्जकभावादेरिति पञ्चमी। आदिशब्दादाधाराधेयभावपरिग्रहः । एतस्मात् पूर्वनिषिद्धात् सम्बन्धद्वयादन्यस्यापि यस्य कस्यचित् सम्बन्धस्य व्यक्ति प्रति सामान्यस्याभावात् । किङ्कारणं (।) नित्यत्वात् केनचिद् व्यक्तिभेदेनानुपकार्यस्य सामान्यस्याप्रतिबन्धेन । न प्रतिबन्धस्य कश्चित् सम्बन्धोस्तीत्युक्तं ।
एतेन चान्यत्वेऽपाश्रयादिति श्लोकभागो व्याख्यातः । ( । १५२-५३ ।। )
असत्सम्बन्धमपि सामान्यं व्यक्तिषु स्वरूपानुकारिणीं प्रतीतिं जनयतीति चेदाह । सम्बन्धादित्यादि । नास्य सम्बन्धोस्तीति विग्रहः । सर्वस्मात् सर्वत्र प्रतीतिः स्यादित्यर्थः । तदिति तस्मादयमिति सा मान्य वा दी । एकस्य सामान्यस्य दर्शनेन हेतुना । एकस्मिन् शाबलेये व्यक्तिभेदे वृत्तिर्यस्य तस्यान्यत्र व्यक्त्यन्तरे वृत्तिमविच्छिन् वस्तुत्वेनेष्टस्य सामान्यस्य व्यक्तेः सकाशाद् ये तत्त्वान्यत्त्वे । ते नाक्रमति वस्तुनो गत्यन्तराभावात् । चोक्तो दोष इत्ययुक्तमेतद्वस्तुभूतात् सामान्यादनुयायिज्ञानमिति ।
यत एवन्तस्मादर्थेषु परस्परविवेकिष्विय मेकरूपैकाकारा प्रतीतिर्भ्रान्तिरेव (1) भिन्नेष्वभेदाध्यारोपेण वृत्तेः । कुतस्तर्हि सोत्पन्नेत्याह । विकल्पेत्यादि । विजातीयव्यावृत्तपदार्थानुभवेन या तथाभूतविकल्पस्य प्रकृत्या जनिका वासनाहिता ततः समुत्थिताः । एतच्च प्रागेवोक्तमित्याह । भावभेद इत्यादि । भावानान्तत्कार्याणामतत्कार्येभ्यो' भेदः । तथाभूतानां चानुभावेनाहिता या वासना तस्याः प्रकृतिश्च स्वभावश्चास्या श्राश्रय इति निर्णीतमेतत् प्राक तत्र भावभेदः पारम्पर्येण कारणं
३८