________________
२६६ प्रमाणवात्तिकस्ववृत्तिटीका (१।१५३)
स्वभावो हि तत्त्वमन्यत्त्वमेव वा न लंघयति। रूपस्यातद्भूतस्याऽन्यत्त्वाव्यतिक्रमात्। इदमेव रूपान्यत्त्वं यन्न तदेव न अकारान्तरवत अविशेषात् । तच्चानन्यत् तदा तदेव तत् स्यात् अतत्त्वे वस्त्वन्तरवद् अन्यत्त्वप्रसंगात्। __ न चैकवस्तुस्वभावस्य व्यक्त्यन्तरान्वावेशः अव्यक्त्यन्तरत्वप्रसगात् । ततो व्यक्तेरव्यतिरेकिणो नान्वयिनी बुद्धिः, नाऽपि व्यतिरेकिणः, तस्य
तदान्यानन्यभेदादि सर्वमेव प्रलीयत" इति ।' तनिषेधार्थमाह। स्वभावो हीत्यादि । स्वभावात् तत्त्वमेवान्यत्त्वमेव वा न लंघयतीति सम्बन्धः ।
ननु देशकालस्वभावाभेदेपि सामान्यविशेष योरनुगतव्यावृत्तिरूपाभ्यां भेदोपीष्यत इत्यत आह। रूपस्यानुगतस्य स्वभावस्यातद्भूतस्य व्यावृत्तरूपस्वभावस्यान्यत्त्वाव्यतिक्रमात् । व्यावृत्तेभ्यो विशेषरूपेभ्यो भिन्नस्यानुगतरूपस्य सामान्यस्यान्यत्त्वमेव स्यादित्यर्थः । अस्त्यतद्रूपत्वमन्यत्त्वमेव (1) कथमित्यत आह। इदमेवेत्यादि । यन्न तदित्यतद्रूपमित्यर्थः । एतावदेवान्यत्त्वलक्षणमित्यर्थः। प्राकारान्तरवत् । षष्ठ्यर्थे वतिः । तथा हि सुखाद् दुःखस्याप्यन्यत्त्वमसुख रूपं दुःखमिति कृत्वा। इयता चातपस्यान्यत्त्वलक्षणेन व्याप्तिरुक्ता। अस्य चान्यत्त्वलक्षणस्याविशेषादभिमतेपि सामान्ये । ___एतेन पक्षधर्म उक्तः। प्रयो गस्तु। यद्वस्तुत्वे सत्यतद्रूपन्तस्य ततोन्यत्त्वमेव तद्यथा सुखाद् दुःखस्य। वस्तुत्वे सत्यव्यक्तिरूपं चेष्यते सामान्यमित्यतद्रूपत्वेनान्यत्वे व्यवहारस्य साध्यत्वात् स्वभावहेतुः । एवन्तावदतद्रूपत्वे सामान्यस्यान्यत्त्वमेवापादितम् (1) अथान्यत्त्वं नेष्यते तदा तत्त्वं प्राप्नोतीत्याह। तच्चेत्यादि। व्यक्तेरनन्यत्तदा तदेव व्यक्तिरूपमेव तत् सामान्यम्भवति। अतत्त्वे इत्यव्यक्तिरूपत्वे वस्त्वन्तरवदन्यत्त्वप्रसङ्गात् । एतच्चानन्तरमेवोक्तं ।
अस्त्वनन्यत्त्वं सामान्यस्य तथापि व्यक्त्यन्तरमनुयास्यतीत्यत आह। न चैकेत्यादि। एकव्यक्तिस्वभावस्य व्यक्त्यन्तरान्वावेशोनुगमो व्यक्त्यन्तरस्वभात्वमिति यावत् । कस्मात् तस्यावगम्यमानस्याव्यक्त्यन्तरत्वप्रसङ्गात् । यदि शाबलेयात्मकं सामान्यं बाहुलेयस्यात्मभूतं भवेत्तदा बाहुलेयः शाबले य एव जातः शाबलेयात्मकात् सामान्यादव्यक्तिरेकाच्छाबलेयवदिति कुतोस्य व्यक्त्यन्तरत्वं । तत इति तस्माद् व्यक्तेरव्यतिरेकिणः सामान्यात्सकाशाद् अन्वयिनीत्यनुगामिनी।
1 Ślokavārtika, Āksti 10.