________________
४. सामान्यचिन्ता
. २६५
नान्यत्र स्वरूपानुकारिणी बुद्धि जनयन् तेन संबंधमपेक्षते, अन्यथाऽतिप्रसङ्गात् ।
स च सामान्यस्य सतः तत्त्वान्यत्वपक्षयोर्न संभवति । एकत्र दृष्टस्यान्यत्र दर्शनासम्भवात् सतः ॥१५३॥
सा हि बुद्धिर्भूतग्राहिण्येकभाविनी व्यक्त्यन्तरमेव स्कन्देत् तत्र दृष्ट . किञ्चिद् अन्यत्र दर्शनं स्यात् ।
अनन्यत्त्वेऽन्वयाभावादन्यत्त्वेऽप्यनपाश्रयात् । सतोऽसम्भवः।
यत्र बुद्धिजनयति तेन सम्बन्धमपेक्षते। सम्बन्धमन्तरेण स्वाकारबुद्धिजननेऽतिप्रसङ्गात् । (११५१-५२॥) ___ स चेति सम्बन्धो व्यक्त्यन्तरेण सामान्यस्य सतो विद्यमानस्य । तत्त्वपक्षेऽन्यत्त्वपक्षे च न सम्भवति (1) कस्माद् (1) एकत्र व्यक्तिभेदस्यार्थान्तरभूतस्यानर्थान्तरस्य चान्यत्र व्यक्त्यन्तरे दर्शनासम्भवात् । सा होत्यादिनैतदेव साधयति । सा हि बुद्धिर्भूतग्राहिणी वस्तुभूतसामान्यग्राहिण्येकभाविनी। एकत्र व्यक्तिभेदे उत्पन्ना व्यक्त्यन्तरमेव सा स्कन्देत् गच्छेद् (1) व्यक्त्यन्तरमपि सामान्याका रेण गृह्णीयादिति यावत् । यदि तत्रैकस्मिन् व्यक्तिभेदे दृष्टं किञ्चिद् वस्तुभूतं सामान्यमन्यत्रेति यत्र व्यक्तिभेदे तया स्कन्दितव्यं । तच्चान्यत्र दर्शनं । सत इति वस्तुभूतस्य सामान्यस्य न सम्भवतीति सम्बन्धः। किङ्कारणम् (1) आश्रयादनन्यत्वेभ्युपगम्यमानेन्वयाभावात्। न किस्मादव्यतिरिक्तस्तदात्मभूतोन्यदन्वेति। आश्रयादन्यत्त्वेपि सामन्यस्य व्यक्ताव'नपाश्रयात्। अनन्तरोक्तेना- धाराधेयादिभावनिषेधेनाश्रयभावस्य निषिद्धत्वात्। यदि व्यतिरिक्तस्य सामान्यस्यासम्बन्धान व्यक्त्यन्तरे स्वाकारज्ञानजननम् (।) एवन्ताद्यायामपि व्यक्तौ तत्तुल्यमिति किमुच्यते व्यक्तिष्वपूर्वास्विति व्यक्तिष्वित्येव वक्तव्यं । तथैकत्र दृष्टस्यान्यत्र दर्शनासम्भवादित्यपि वक्तव्यं । एकत्रापि व्यक्तिभेदे सम्बन्धमन्तरेण दर्शनासम्भवात् ।।
सत्यमेतत्। अभ्युपगम्यैतदुक्तमित्यदोषः। '
योपि मन्यते (1) तत्त्वान्यत्त्वपक्षे सामान्यस्यान्यदर्शनं न सम्भवत्यस्माकन्तु भिन्नाभिन्नमेव सामान्यं । तथा हि (1)
"निविशेषं न सामान्यं भवेच्छशविषाणवत्। केनचिच्चात्मनैकत्वं नानात्वं चास्य केनचित् । यदा च शबलम्वस्तु युगपत् प्रतिभासते ।
मा.