________________
२६४ ___प्रमाणवार्तिकस्ववृत्तिटीका (१।१५२) __ समवायोऽभिव्यक्तिश्चेत , तस्योत्तरं हि तस्य समवायस्य अयोगादि
त्युक्तम् । एषां समवेतानामषि दृश्यतापत्तिः पूर्ववत् पश्चादपि न कश्चिद् 465a विशेषः न ज्ञानहेतुता। समवायादेव ज्ञानहेतुत्वे' प्रदीपादावपि स एव प्रसंगः।
तद् नाधेयता सामान्यस्य नाऽप्याश्रयेण व्यक्तिरवृत्तेः न ज्ञानहेतुः। प्रत एव-- व्यक्तेरन्या थवानन्या येषां जातिस्तु विद्यते ॥१५२॥ तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः । 'तु शब्दोऽवधारणार्थे विद्यत एवेति। वस्तुसती । हि स्वसामथ्य
जनकयोः कोयं समवाय इत्युक्तत्वात्।। . भवतु नाम समवायस्तथाप्यस्य सामान्यस्य समवायमानं व्यक्त्या सह जातं नान्यः कश्चिद्विशेषो विज्ञानजननलक्षणः। पूर्ववदिति व्यक्तिसमवायात् प्राग्वत् पश्चादपि व्यक्तिसमवायेपि यद्यपि सामान्यस्य न कश्चिद् विशेषस्तथापि समवायबलादेव स्वविषयज्ञानजननमिति चेदाह। समवायादेवेत्यादि । ज्ञानहेतुत्वेन सामान्यस्याभ्युपगम्यमाने । स्वाश्रयो यो यत्र समवेतस्तत्समवायिनं। सामान्यस्याभ्युपगम्यमाने। स्वाश्रयो यो यत्र समवेतस्तत्समवायिनं । सामान्यादन्येषामपि परमाणसमवेतानां रूपादीनामपि दश्यतापत्तिः स्यात्। समवायस्यैकत्वेन सर्वत्राविशेषात्। यथा हि सामान्यमतीन्द्रियमपि केवलस्समवायो दर्शयत्येवं परमाणुगतानपि रूपादीन् किन्न दर्शयेत्। यतश्च समवायपक्षेऽयन्दोषस्तस्मात् ज्ञानहेतुतैव सामान्ये व्यक्तेर्व्यञ्जकत्वं । तच्चेत्थं भूतं व्यञ्जकत्वन्तुल्यम्प्रदीपादावपीति स एव प्रसङः प्राप्तो गोत्वादिना तद्वानित्यादिकः। (। १५०-५१॥)
तदिति तस्मान्नाधेयता सामान्यस्य स्वाश्रये वृत्तिर्नापि स्वाश्रयेण व्यक्तिरभि- . व्यक्तिः स्वाश्रये सामान्यस्य वृत्तिः । अतश्चावृत्तेः कारणात् सामान्यन्नानेकत्र व्यक्तिभेदे एकाकारज्ञानहेतुः। न हि यो यत्र न वर्त्तते स तत्रात्मवृत्तिद्वारेण ज्ञानहेतुर्युक्तः । __ अत एवानेकत्र एकस्य सामान्यस्यावृत्तेः कारणात्। व्यक्तेः सकाशादन्या यदि जातिरथवानन्या। येषां वादिनां । व्यक्तिष्वपूर्वासु संप्रत्युत्पन्नासु पश्चाद्वा दृश्यमानासु । तु शब्दो विद्यते शब्दात्परेण द्रष्टव्योवधारणार्थः । अत एवाह । विद्यत एवेत्यादि । वस्तुसती येषां जातिरिति यावत् । स्वसामर्थ्य सति स्वप्रतिपत्तिद्वारेण । अन्यत्रेति व्यक्तिभेदे बुद्धिजनयन् । किं विशिष्टां स्वरूपानुकारिणीमेकरूपानुगतां