________________
४. सामान्यचिन्ता
२६३
त्वात्सहकारि सामान्यं विज्ञानहेतुः । एवं चेत् सामान्यं व्यक्तेः पारम्पर्येण कार्यमुक्तं स्यात् ।
श्रपि च ।
व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते ॥ १५१ ॥ प्राप्तो गोत्वादिना तद्वान् प्रदीपादि: प्रकाशकः ।
यो हि कश्चित् विज्ञानहेतुः स हि तस्य व्यञ्जकश्चेत् गोत्वादिषु प्रदीपादेरपि विज्ञानहेतुत्वं स्यात् । श्रालोकसंस्कारापेक्षया चक्षुषार्थप्रतीतेः । तेन प्रदीपादिः हि गोत्वादिना तद्वान् स्यात् ।
न हि व्यक्तेरपि सामान्यस्याभिव्यक्तिः ज्ञानहेतुतां मुक्त्वाऽन्या काचित्, स्वभावातिशयस्याधातुमशक्यत्वात् ।
किञ्च ( 1 ) व्यक्तेः सामान्य संस्कारे सति तज्जन्यं सामान्यं स्यादिति परेणेन्द्रियसंस्कारोङ्गीकृत: ( व्यक्तेः सकाशात् ) । तथापि व्यक्तिजन्यत्वं प्रसज्यत इत्याह । व्यक्तिरित्यादि । तत्सहकारि । व्यक्तिसंस्कृतेन्द्रियसहकारि सामान्यमिवज्ञानहेतुरित्यभ्युपगम्यमाने । व्यक्तिकार्यस्येन्द्रियस्य कार्यत्वात् सामान्यं व्यक्तेः पारम्पर्येण कार्यमुक्तं स्यात् । ( । १४६-५०।। )
भवतु नाम सामान्यस्य व्यञ्जिका व्यक्तिः तावदस्या जातिमत्त्वं न युक्तमतिप्रसङ्गादित्याह । अपि चेत्यादि । जातीनां सामान्यानां व्यञ्जकस्य व्यक्तिभेदस्य जातिमत्ता यदीष्यते । तदा गोत्वादेः प्रकाशक : व्य ( ? प्र ). दीपादि ( : ) व्यञ्जकत्वात्तेन गोत्वादिना तद्वान् गोत्वादिमान् प्राप्तः । शावलेयादिवत् । गोत्वाधारः प्राप्त इत्यर्थः ।
यो हीत्यादिना व्याचष्टे । गोत्वादिषु व्यङग्येषु विज्ञानहेतुत्वं प्रदीपादेरप्यस्ति । कथमिति चेदाह । तेज इत्यादि । तस्मादस्त्या लोकस्य विज्ञानम्प्रति हेतुत्वं । तत इति ज्ञानहेतुत्वात् । प्रदीपादय इति (1) आदिशब्दादिन्द्रियसंस्कारादिपरिग्रहः । तेषामपि ज्ञानहेतुत्वात् । व्यक्तेः सकाशाद् विशिष्टस्यैवाभिव्यक्ति: सामान्यस्य भवति न तथा प्रदीपादेरिति चेदाह । न हीत्यादि । व्यक्तेरपि सकाशात् सामान्यस्याभिव्यक्तिर्ज्ञानहेतुतां मुक्त्वा न ह्यन्या काचित् । यदि हि सामान्यस्या - 108b तिशयाधानं व्यक्त्या क्रियते न प्रदीपादिना । तदा भवेद्विशेषस्तच्च नास्ति । स्वभावातिशयस्याधातुमशक्यत्वात् । नित्यत्वात् सामान्यस्येति भावः । समवाय इत्यादि । व्यक्तौ च समवेतं गोत्वं न प्रदीपादौ । तस्येति सामान्यस्य । अजन्य