________________
२६२
प्रमाणवार्तिकस्ववृत्तिटीका (१।१५०) संस्कृतमिन्द्रियमयुक्तम्। ____ व्यक्तेः सामान्यस्य विज्ञानजननस्वभाव इति स्वभावात् प्रच्युतेः संस्कृतेन्द्रियानपेक्ष एव विज्ञानोत्पादः। संस्कृतेन्द्रियसहकारित्वात् एकाको न
शक्त इति चेत्। अनाधेयातिशयस्यास्य कोयं सहकारार्थः ? अनित्त्या 464b हि भावाः' सहकारिणो विशिष्टस्यात्मनो लाभात् तमपेक्षन्ते। यो ह्येषां
जनक प्रात्मा स हि तदैव ततो भवतीति जनक प्रात्मा हि परस्परापेक्षः । सामान्यान्तरेणासिद्धलिङ्गस्य स स्वभावोऽपि कुत इन्द्रियापेक्षः। . . . . . स हि योऽस्वभावस्तेन तु कथमपि न स्यात्। व्यक्तिसंस्कृतेन्द्रियकार्य
निश्चयो न स्यात्। किङ्कारणं (1) तस्या व्यक्तेरविभागमयास्तेषु स्वात्मसमवेतेषु सामान्येषु विशेषाभावात्। न हि सा व्यक्तिः क्वचित् प्रत्यासन्ना क्वचिन्न। ततः सर्वस्य वा निश्चयः सामान्यस्य न वा कस्यचिदपीत्येवन्तावद् व्यक्तेरिन्द्रियसंस्कारो न घटत इत्याख्यातम् (1)
अधुनाभ्युपगम्याप्युच्यते। व्यक्तरित्यादि। व्यक्तेस्सकाशात् पक्षद्वयेपि सामान्यस्य विज्ञानजननस्वभाव इति कृत्वा (1) तस्माद् विज्ञानजननात् स्वभावात् प्रच्युतेः कारणान्न हि समर्थस्य सहकार्यपेक्षा युक्ता। संस्कृतमिन्द्रियं सहकारि यस्य सामान्यस्य तत्तथोक्तन्तद्भावस्तस्मात् । नित्यत्वादनाधेयातिशयस्य सामान्यस्य कोयं सहकारार्थः (1) नैव कश्चित् ।
अनित्त्या होत्यादिना व्यतिरेकमाह । सहकारिणः सकाशाद्विशिष्टस्यात्मनो लाभात् । तमिति सहकारिणं (1) कस्माद् (1) यो ह्येषां क्षणिकानां जनक प्रात्मा सहकारिसन्निधेः प्राङनासीत् । तदैव सहकारिसन्निधिकाले । ततः सहकारिणः सकाशाद् भवतीति कृत्वा। एषामिति क्षणिकानां। ___ ननु क्षणिकानामपि कथं सहकारिणो विशिष्टात्मलाभापेक्षा। सहभाविनाम्परस्परमनुपकार्योपकारकत्वात्। यश्च क्षणो जायते न तस्य सदसत्त्वकालयोस्सहकार्यपेक्षेति (1)
अयुक्तमुक्तमुपकारी ह्यपेक्षत इति नैष दोषः। सत्तापेक्षयैतदुच्यते। अत एवाह। जन्यतैवैषां परस्परतोपेक्षेति। अनासाद्य परमिति सहकारिणं। तत्स्वभावं समर्थस्वभावं। न हि तस्य सामान्यस्य केवलस्य सहकारिविकलस्य प्राग यो न विज्ञानजननस्वभावः स पुनः कथंचिद् भावी। न हीति सम्बन्धः। नित्यत्वादिति भावः।
1 Yan-gar-ba.