________________
४. सामान्यचिन्ता
___२६१
चेन्द्रियसंस्काराः।
प्रागदृश्ये दर्शनशक्त्याधानात् उपकारकमिति चेत् अतीन्द्रियदर्शनादेव कथं प्रतिपत्तेर्न भेदकः? ____एकस्मिन् प्रतिनियमे ऽपि सामान्यान्तरस्य दर्शको न स्यात् व्यक्त्या च संस्कारात्। तद्दर्शने तद्व्यंग्येषु सामान्यानां कदाप्यनिश्चयोऽन्यो वा स्यात् । अविभागायास्तस्यास्तेषु विशेषाभावात् व्यक्तेरिन्द्रियसंस्कारो न घटते इति
नेन्द्रियसंस्कार उपकारी स्यादिति सम्बन्धः।
एतदुक्तम्भवति। विषया हि विनियतास्ते स्वाकारस्यैव विज्ञानस्य साधनं नाकारान्तरयुक्तस्य (1) ततो विषयसंस्कारः प्रतिनियतत्वात् स्वविषयामेव विशिष्टां प्रतिपत्तिजनयन्न विरुध्यते । इन्द्रियं तु स्वग्राह्ये विषयभेदे तुल्यं साधनमतस्तत्संस्कारः सर्वस्मिस्तद्ग्राह्ये प्रतिपत्तेर्भेदकः प्राप्नोतीति । नेन्द्रियस्य व्यक्तिभेदस्तदिन्द्रियग्राह्ये सर्वस्मिन् दृश्ये विषये स्पष्टाकारज्ञानजननाय संस्कारमाधत्ते। किन्तहि व्यक्त्युत्पत्तेः प्रागदृश्य सामान्ये इन्द्रियस्य दर्शनशक्त्याधानात् कारणाद् व्यक्तिभेद उपकारकं इहि । अतीन्द्रियदर्शनादेव च स्पष्टमिन्द्रियस्य संस्कारो गम्यते। व्यक्तिसन्निधानात् पूर्वमसमर्थम्पश्चात्तत्सन्निधाने समर्थमिति स व्यक्तिभेदोतीन्द्रियं सामान्या ख्यमर्थन्दर्शयन् कथं प्रतिपत्तेः सर्वत्र न भेदको भेदक एवेत्यर्थः ।
- एतदुक्तम्भवति। दृश्येपि तावदस्पष्टे स्पष्टाकारदर्शनशक्त्याधानाद् अञ्जनादिकृतः इन्द्रियसंस्कारः सर्वत्र तदिन्द्रियग्राह्ये विषये प्रतिपत्तेर्भेदको दृष्ट: (1) किं पुनर्योतीन्द्रियस्यार्थस्य दर्शकस्तथा चान्यस्याप्यतीन्द्रियस्य परमाण्वादेर्दर्शक: स्यादिति भावः। सामान्यस्यैव दर्शनायेन्द्रियस्य संस्कारमाधत्ते व्यक्तिभेदः ततो नास्त्यतिप्रसङ्ग इति चेदाह। एकेत्यादि। एकस्मिन् सामान्ये द्रष्टव्ये इन्द्रियसंस्कारस्य प्रतिनियमस्तस्मिन्नभ्यपगम्यमाने तस्मिन्नेव व्यक्तिभेदे शावलेयादिकेसमवेतं यत्सामान्यान्तरं सत्ताद्रव्यत्वादि। तस्य दर्शक इन्द्रियसंस्कारो न स्यात्। इष्यते च। आत्मसमवेतानामेव सर्वसामान्यानान्दर्शनाये न्द्रियसंस्कारो नैकस्यैवेति चेदाह । व्यक्त्या बेत्यादि। तद्दर्शन इति तेषां व्यक्तिसमवेतानां सामान्यानान्दर्शने। तद्वयङ्ग्येषु तया व्यक्त्या. व्यङ्ग्येषु। दृष्टश्च दूराद् द्रव्यमात्रदर्शने द्रव्यत्वमर्थत्वयोनिश्चयेपि सति गोत्वादावनिश्चयः। यस्मिन्ननिश्चयस्तस्य दर्शनाय नाहितः संस्कारभेद इति चेदाह। एकनिश्चयो वेति न स्यादिति सम्बन्धः। एकशब्दो'न्यार्थोऽनिचितादन्यस्यापि निश्चिताभिमतस्य द्रव्यत्वादे- 108a
1 Bam-po-lia-pa = पञ्चममाह्निकम् ।