________________
प्रमाणवार्त्तिकस्ववृत्तिटीका ( १।१५० )
२६०
इन्द्रियस्य संस्कारात् । योऽपि --
अञ्जनादेरिव व्यक्तेः संस्कारो नेन्द्रियस्य च ॥ १५०॥ प्रतिपत्तेरभिन्नत्वात् तद्भावाभावकालयोः ।
अंजनादिभिः संस्कृतमिन्द्रियं प्रतिपत्तौ, कञ्चिदतिशयमासादयति स्पष्ट स्पष्ट विशेषणात् तदकारिणश्चातत्संस्कारकत्वात् । नैवं व्यक्तेर्यथा हीन्द्रियस्य संस्कारः कश्चित् तद्भावाभावकालयोः प्रतिपत्तावविशेषात् । विषयसंस्कारो हि इन्द्रियाविशेषेऽपि तद्विशेषाधानादुपकारी स्यात् न
व्यञ्जिका सामान्यस्य । येन तया जन्यं स्यात् सामान्यं । किन्तर्हि तद्ग्राहिण इति सामान्यग्राहिणः संस्काराद् व्यञ्जकेति प्रकृतं ।
योपीत्याद्या चा र्यः । अञ्जनादेरिवेति वैधर्म्यदृष्टान्तः । श्रञ्जनादेः सकाशाद् यथेन्द्रिय संस्कारो युक्तो नैवं व्यक्तेः सकाशात् । कस्मात् प्रतिपत्तेर्ज्ञानस्य व्यञ्जकत्वेनाभिमताया व्यक्तेर्भावाभावकालयोः सप्तमीद्विवचनमेतत् ।
संस्कृतमित्यादिना व्याचष्टे । श्रञ्जनादिभिः संस्कृतमिन्द्रियं कंचिदतिशयमात्मभूतमासादयति । प्रतिपत्तौ प्रतिपत्तिनिमित्तं । विशिष्टज्ञानोत्पादनायेति यावत् । निमित्तात् कर्म्मसंयोग इत्यनेनात्र सप्तमी । कुत एतदिति चेदाह 18 स्पष्टेत्यादि । प्रतिपत्तेरिति विभक्तिविपरिणामेन सम्बन्धः । तथा हि तिमिराद्युप107b हतमिन्द्रियमस्पष्टं विज्ञानञ्जनयति । तदेवाञ्जनादिसंस्कृतं स्पष्टतोऽवसीयते (1) संस्कृतमिन्द्रियं प्रतिपत्त्यर्थमतिशयमासादयतीति ।
अथाञ्जनादेः सकाशान्न प्रतिपत्तिभेदस्तदा । तदकारिणश्च प्रतिपत्तिभेदाकारिणश्चाञ्जनादेरतत्सं 'स्कार (क) त्वादिन्द्रियासंस्कारकत्वात् । यथाञ्जनादेः सकाशादिन्द्रियस्य संस्कारो नैवं व्यक्तेः सकाशात् (1) किङ्कारणं ( 1 ) तद्भावाभावकालयोरित्यादि । तथा हि व्यञ्जिकाया गोव्यक्तेरभावकाले यादृशं चक्षुर्विज्ञानं वृक्षादावुत्पन्नन्तस्या गोव्यक्तेः ( अ ) भावेपि वृक्षादौ तादृशमेव । यदि तद भावकाले पूर्वमस्पष्टं विज्ञानं वृक्षादिषुत्पन्नं पश्चाद् गोव्यक्तिकृत इन्द्रियसंस्कारो ग-येत ।
विषयसंस्कारेपि सति विषयान्तरे नैव प्रतिपत्तिभेदोऽस्त्यतः सोपि न युक्त इति चेदाह । विषयेत्यादि । विषयस्य गन्धादेर्यः केनचित् संस्कारस्स इन्द्रियाविशेषेपि । यदि नामान्यत्र विषयान्तरे इन्द्रियस्य प्रतिपत्तिं प्रति विशेषो नास्ति । तथापि द्विवेषाधानन्तस्य संस्कृतविषयग्राहकस्य ज्ञानस्य विशेषाधानादुपकारी स्यात् ।