________________
२८॥
४. सामान्यचिन्ता स्वविषयविज्ञानजननसामर्थ्येन, तत्र हि परमपेक्षतेति अवश्यं तत प्रात्मप्रतिलम्भः न चायमात्मप्रतिलम्भः सामान्यस्य कुतश्चित् संभवति। तस्मात् तत् कुतोऽपि न व्यङ्ग्यम् । नैव सामान्य व्यक्तियोग्यता प्राप्तमिति। __ अथ सामान्यमस्ति स्वाश्रयसमवेतं, तदा स्वाश्रयसमवायापेक्षः तदात्मन्यन्यत्र वा विज्ञानहेतुरिति उक्तम् , तत्र जन्यजनकयोः प्राश्रयाश्रयिलक्षणसमवेतोऽयं कः स्वाश्रयसमवायापेक्षो विज्ञानहेतुः, तेन जन्यस्य एव स्यात् , तद्धेतोः भावस्य प्राग्भावात् पश्चाच्च ततो भावात्। नित्यं तद्भावसद्भाव इति प्रागपि समवायात् विज्ञानोदयप्रसंगात्। ___ न हि व्यक्तिः सामान्यस्य संस्कारात् व्यञ्जिका। किन्तर्हि ? तद्ग्राहिण' 464a
यथाभावमेव प्रवर्तन्त इत्यादिना। भावाभावानविधानाच्च सामर्थ्यन्न प्रति- I07a भासादित्यादिना तृतीये परिच्छेदे ( ) प्रतिपादयिष्यते च। साक्षादुपयोगेन स्वरूपानुकारिविज्ञानजननसामर्थ्येन। तत्रेति स्वविषयज्ञानजनने। परमिति प्रदीपादिकं । तत इत्यपेक्ष्यात् प्रदीपादेः ।
एतदुक्तम्भवति। न सर्वो व्यञ्जको जनक इत्युच्यते (1) किन्तु स्वाकारज्ञानजनकस्य परस्य साहाय्यं यः प्रतिपद्यते स एव । ततो नास्ति व्यभिचार इति । सामान्यमपि स्वाकारज्ञानजननाश्रयमपेक्षत इति व्यङ्ग्यमिष्टन्ततस्तेनाश्रयादुपलम्भयोग्य प्रात्मा लब्धव्यः (1) न चायमात्मप्रतिलम्भः सामान्यस्य कुतश्चित् सम्भवति। नित्यत्वेनाभ्युपगतत्वात्। तदिति सामान्यं ।
नैवेत्यादि परः। स्वाश्रयसमवायव्यक्ति ब्रूम इति सम्बन्धः। स्वाश्रयसमवायः . कथं व्यक्तिरिति चेदाह। स्वाश्रयेत्यादि। तदिति सामान्यं। अन्यत्रेति स्वाश्रये।
उक्तमित्या चा र्यः । “तदेवेदमनुपकारकस्याश्रयत्वं न सम्भावयाम" इत्यादिनोक्तत्वात् । स्वाश्रयसमवेतं हि तदात्मन्यन्यत्र वा विज्ञानहेतुरिति ब्रुवाणेन स्वाश्रयसावायापेक्षः सामान्यपदार्थः विज्ञानहेतुरिष्टः । ततश्च तेन स्वाश्रयसमवायेन 'सामान्यात्मा जन्यस्य स्यात् । किङ्कारणं (1) तद्धतोऑनहेतोः स्वभावस्य स्वा:श्रयसमवायात् प्राग्भावात्। स्वाश्रयसमवाये सति पश्चाच्च ततः स्वाश्रयसमवायाद् विज्ञानहेतोः स्वभावस्य भावात् । नित्यं सामान्यस्य विज्ञानजननस्वभावत्वादसिद्धमेतदिति चेदाह। नित्यमित्यादि। तत्स्वभावसभाव इति विज्ञानजननस्वभावे प्रागपि स्वाश्रयसमवायाद् व्यक्तिशून्येपि देशे केवलात् सामान्यादित्यर्थः । सामान्याकारविज्ञानोदयप्रसङ्गात् । (११४८-४६॥) नेत्यादिपरः। व्यक्तिराश्रयः सामान्यस्य संस्कारो योग्यताधानन्तस्माद्धेतोर्न
३७