________________
२८८
प्रमाणवात्तिकस्ववृत्तिटीका (१।१४६) न तमपेक्षते। तस्य हि परभूतत्वे सैव ततो भूतेति स्थितिवत्प्रसंगः। तं
व्यङ्ग्यं नाप्यन्यत् क्रियते। 463b एवं अकिञ्चित्कत्वेन प्रतिषेधः ततो' व्याहतमेतत्।
तत्तु न धूमादिर्जनकोऽथकार्यत्वाद् व्यञ्जकः। सत्यं हि जनकः । न तु धूममपेक्ष्याग्निविज्ञानं जनयति । तथा भूतस्याग्नेः साक्षादजनकत्वात् । केवलं तत्रोपादानमपेक्ष्य ज्ञानं उत्पद्येत न तु विषयबलेन, असत्यपि तस्मिन् परम्परया लिङ्गानुसारिणा भावात् ।
वापि सामान्याकारावभासि ज्ञानं, न तेषां सन्निहितविषयता। न विषयबलेनोत्पत्तिरिति प्रतिपादितं प्रतिपादयिष्यते च । ततः साक्षादूपयोगेन
व्यङ्ग्यस्य स्वभावभूता सा। यथाव्यङ्ग्य: प्रागेवास्ति तथा तत्स्वभावभूतापि योग्यता। तमपेक्षत इति व्यञ्जकं। व्यङग्याद व्यतिरिक्तैव योग्यता व्यञ्जकेन क्रियत इति चेदाह। परेत्यादि । अस्यामिति योग्यतायां । सैव योग्यता। तत इति व्यञ्जकात् स्थितिवत्प्रसङ्गः। यदुक्तम् (1) अन्या चेत् स्थितिस्तामेवाश्रयः करोतीत्यादि तदिहापि प्रसज्येत। तमिति व्यङ्ग्यं । नापि व्यङग्यादन्यत् तत्करणे व्यङग्यस्य न किञ्चिदिति कृत्वाऽपेक्ष्यत इत्यनेनोपकारित्वमुक्तं। अकिंचित्करत्वेन तत्प्रतिषेधस्ततो व्याहतमेतत् ।
यदुक्तं (1) जनक एव व्यञ्जक इति तस्य तत्त्वित्यादिना व्यभिचारमाह। न हि धूमोग्नेर्जनकोऽथ च कार्यत्वात्तस्य व्यञ्जकः। प्रादिशब्दाद् बलाकादि: सलिलस्य (1) सत्यमित्यादिना परिहरति। न तु धूमं लिङ्गम पेक्ष्याग्निरात्मनि स्वलक्षणे ज्ञानं जनयति। कस्मात् (1) तथाभूतस्यानुमेयत्वेनाभिमतस्याग्नेः साक्षादजनकत्वात् । अन्यथाग्निस्वलक्षणाकारत्वात् प्रत्यक्षात् प्रतिभासाविशेषः स्यात् । केवलमित्यादिनोपादानकारणमेव तस्य साक्षाज्जनकमित्यादर्शयति। लिङ्गज्ञानमुपादानं। न विषयबलेनाग्निस्वलक्षणबलेन (1) किङ्कारणम् (1) असत्यपि तस्मिन् वह्नौ पूर्वध्वस्तेपि भावादग्निज्ञानस्य। कथमित्याह । परम्परयेत्यादि । लिङ्गानुसारी लिङ्गानुस्मरणविकल्पस्तेन। तथा हि कस्यचित् पुरुषस्य क्वचिद् धूमन्दृष्टवतो ध्वस्ते धूमे वह्नौ च कथमपि तत्र धूमानुस्मरणविकल्प उत्पन्ने पश्चादन्वयव्यतिरेकानुस्मरणादभूदत्र धूमस्तस्माद् वह्निरप्यत्रासीदित्येवं परम्परयाग्निजन्य धूमादग्निज्ञानमुत्पद्यत एव । ___ नापीत्यादिना पूर्वोक्तमत्रैव योजयति। सामान्याकारावभासि चानुमानज्ञानं । न सन्निहितविषयता। विनष्टेपि हिं विषये अनुत्पन्ने च सम्भवात् । यदापि सन्निहितो विषयस्तदापि न विषयबलेनोत्पत्तिरिति निवेदितं प्राक् न हि विकल्पा