________________
४. सामान्यचिन्ता
२८७
सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः ।
न कारकाद् व्यञ्जकस्य कश्चिद विशेषः। अपरं स्वविषयस्य विज्ञानोत्पादनसमर्थ सजातीयोपादानापेक्ष अनपेक्षं च भावं जनयन्नेव . व्यञ्जक उच्यतइति ।
परत्र हि जन्य ज्ञानजननशक्तिरनाक्षिप्ता जन्यस्येति जननमात्रण कारकत्वम्। ___यदि हि यतो यः विज्ञानोत्पादनयोग्यतां• प्रतिलभते, स न तज्जन्यः । तस्य सा योग्यता स्वभावभता हि प्रागेवास्तीति विज्ञानोत्पादनं
विकार्यस्य । तदिति यथोक्तलक्षणं व्यङ्ग्यत्वं सामान्यवत इत्याश्रयात्सकाशात् कुतो नैवेत्यर्थः। अपरमिति स्वसन्तानादन्यम्भावमेव जनयन् व्यञ्जक उच्यते। किम्भूतं स्वविषयस्य विज्ञानोत्पादनसमर्थ। सजातीयोपादानापेक्षमिति स्वसन्तानसङ्ग्रहीतपूर्वक्षणसापेक्षं। यथान्धकारावस्थितघटादिक्षणसापेक्षम्विज्ञानजननसमर्थमुन्नरं घटक्षणञ्जनयत्प्रकाशकः । ____ ननु प्रदीपकार्यत्वे घटस्य प्रदीपोयचयेपि घटस्योपचयोपि स्यादिति चेत् (1) न। उपादानगताद् विभेदात् कार्यस्य भेदो न सहकारिगतात् । सहकारिकारणं च प्रदीपादिर्व्यङ्ग्यस्य घटस्येति कुतो महत्वादिप्रसङ्गोस्य (1) यद्वाऽभिव्यक्तावपि क्रियमाणायां तुल्योयं प्रसङ्ग इति यत्किञ्चिदेतत् । न च व्यङ्ग्यक्षणसदृशस्य क्षणस्य मृत्पिण्डादुत्पत्तिरपि तु प्रदीपादेवेति कुतोन्यादृशात् तादृशस्योत्पत्तिः। अनपेक्षं चेति । यथा सजातीयोपादानापेक्षं स्वविषयविज्ञानजननसमर्थं शब्दं जनयन्नभिघातः । न ह्य'भिघातात् प्राक् छब्दोस्ति येन समानजातीयापेक्षः शब्दो I06b भवेत्। शब्दोपि हि व्यङ्ग्यः परैरिष्यत इत्येवमुक्तं । ___ यदि तहि कारक एव व्यञ्जकः कस्तहि कारकव्यञ्जकयोर्हेत्वोविशेष इत्यत आह । परत्रेत्यादि। व्यञ्जकादन्यस्मिन् कारकत्वेनाभिमत इत्यर्थः । ज्ञानजननशक्तिरनाक्षिप्ता जन्यस्य । न हि स्वविषयविज्ञानजननसमर्थमेव कार्य कारकेण बीजा दिना जन्यते। ततो जननमात्रेण कारकत्वं स्वविषयविज्ञानजननसमर्थकार्योत्पादनलक्षणेन तु विशेषेण व्यञ्जकत्वमिति। (१४७-४८॥)
यद्यपि व्यञ्जकाद् व्यङ्ग्यो विज्ञानोत्पादनयोग्यतां प्रतिलभते तथापि न जन्यत इति चेदाह। यदि हीत्यादि। यत इति व्यञ्जकात्। स चेत् व्यङ्ग्यः। तस्येति व्यञ्जकस्य सा योग्यताऽस्य व्यङ्ग्यस्य व्यञ्जकसन्निधानात् प्रागेवास्ति । यतो