________________
-
२८६
प्रमाणवात्तिकस्ववृत्तिटीका (१।१४६) 463a बन्धः। स च अनाधेयातिशयस्य सामान्यस्याऽयुक्त इति केवलं जनयेदिति नास्त्यन्य प्राश्रयः स्थितिहेतुः।
अभेदे वा सामान्यात् तस्थितिस्वरूपमेव तत्। तच्च नित्य मस्तीति न स्थितिरस्य हि केनचित् क्रियते। तस्माद् न सामान्यस्याश्रयः। तदस्याश्रयो न स्थितिः।
अथ पुनः अव्यक्तस्य सत्त्वे तु तद्व्यक्तिहि व्यक्त्या प्रत्ययहेतु भूत (त्वात्। तत्र स्थितिभूतोऽपि न युक्तः। यस्मात् ।
विज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि यत् ॥१४८॥ तद् व्यङग्यं योग्यताश्च कारणं कारकं मतम् । प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते ॥१४९॥
करोतु किमाश्रयेण शावलेयादिना स्थितिकरणायापेक्षितेन । न ह्यनुपकाररिण्यपेक्षा युक्ता। तस्मादपेक्षेति हि तत्प्रतिबन्धः। अस्मिन्वस्तुन्यस्यापेक्षेति येयमपेक्षा सा तस्मिन्नपेक्ष्ये प्रतिबन्धस्तदायत्तता। स च प्रतिबन्धो नित्यत्वादनाधेयातिशयस्यायुक्त इति केवलं सामान्य 1 स्थिति जनयेदिति नास्त्यन्य प्राश्रयः स्थितिहेतुः । ततश्च स्थितिकरणादाश्रयस्सामान्यस्याधार इत्येतदयुक्तमिति भावः । एवम्भेदाभेदविवेचन इति यदुक्तन्ततो भेदपक्षस्तावदपनीतः।
द्वितीयपक्षमाश्रित्याह। अभेद इत्यादि। सामान्यादभेदे वा स्थितेरभ्युपगम्यमाने स्वरूपमेव तत्स्थितिरूपं सामान्यस्य (1) तच्च स्वरूपं सामान्यस्य नित्यमस्तीति न स्थिति रस्त्र सामान्यस्य केनचिदाश्रयेण क्रियते। यत एवन्तस्मादित्यादि। तदित्यादिनोपसंहारः। तदिति तस्मादस्येति सामान्यस्य ।
तदेवं वृत्तिराधेयता व्यक्तिरिति यत्पक्षद्वयमुक्तन्तत आद्यस्य निरासः कृतः (।) .
२--द्वितीयपक्षमाश्रित्याह। अथ पुनरित्यादि। अव्यक्तस्येत्यप्रकाशितस्य । व्यक्तेत्याश्रयेण ज्ञानस्याकारणत्वात् तद्वयक्तेस्तेनाश्रयेण प्रकाशनं यत्। त देव तत्राश्रये सामान्यस्य वृत्तिः स्यात्। (११४६-४७।।)
नेत्या चार्यः । आत्मनि स्वविषये विज्ञानोत्पादनं । तत्र योग्यत्वं सामान्यन्तदर्थमन्यानुरोधि । कारणान्तरसापेक्षं यत्तद्वस्तु व्यङ्ग्यं प्रतीतं । तस्याश्च स्वविषयज्ञानजननयोग्यतायाः कारणं यत्प्रदीपादि तद्वयङ्ग्यस्य कारकमेव जनकमेव। पूर्वमयोग्यस्य पश्चाद् विज्ञानजननयोग्यस्य घटादेरुत्पादनात् ।
यदि पुनः प्रदीपादिसन्निधानात् प्रागपि घटादि स्वाकारज्ञानजननयोग्यन्तदा प्रागेवास्य च घटादेर्योग्यत्वे तदपेक्षेति प्रदीपापेक्षा। सामान्यस्य नित्यत्वाद