________________
४. सामान्यचिन्ता
२८५
नित्यत्वात् । साऽपि प्रयुक्तैव-
भेदाभेदविवेचने ।
अस्तु नाम श्राश्रयहेतुका सामान्यस्थितिरपि । सा च सामान्यादन्याऽनन्या वा । अप्रतिबद्धत्वे तदेव तस्याः स्थितिकरणं चेत्, साऽपि सामान्ये ऽप्रतिबद्धेति किं सामान्येन कृतं स्यात् ? प्रतिबद्धैव चेत् तदा कः प्रतिबन्ध इति वाच्यम् ? स्थितिकरणप्रतीत्या चेत् तत्राऽपि तुल्यः प्रसंगइत्यनवस्था च स्यात् । तत उपकारस्यानवधारणात् सा हि तत्स्थितिरित्यप्रतीतिः जननं चेत् श्रनुपकारिण्याः किमत्राश्रयेणापेक्षितने ? अपेक्षेति हि तत्प्रति
स्थितिर्भवेत् । किन्तु स्थितिहि तस्य सामान्यस्य स्वरूपाप्रच्युतिरेवोच्यते । सा च स्वरूपाप्रच्युतिर्नाश्रयायता सामान्यस्य नित्यत्वात् । अभ्युपगम्याप्युच्यते । साप्याश्रयायत्ता सामान्यस्य स्थितिरयुक्तैव । सामान्यात् तस्याः स्थितेर्भेदाभेदविवेचने । अन्यत्त्वानन्यत्त्वविचारे क्रियमाणे ।
अस्तु नाम त्यादिना व्याचष्टे । आश्रयहेतुकेत्याश्रयायत्ता । सेति स्थितिः । तामेवाश्रयादन्यां स्थिति स आश्रयः करोति न सामान्यं । सा स्थितिः सामान्ये प्रतिबद्धा ततः सम्बन्धसम्बद्धात् सामान्यमुपकृतमेवेत्यत आह । सा चेत्यादि । सेत्यर्थान्तरभूता स्थितिः । न हि तस्याः सामान्ये प्रतिबन्धकारणं किंचिदस्ति किं सामान्यस्याश्रयेण कृतम्भवतीत्यध्याहारः ।
अभ्युपगम्यत एव स्थितेः सामान्ये प्रतिबन्ध इति चेदाह । प्रतिबन्धे चेत्यादि । प्रतिबन्धे वाभ्युपगम्यमाने । स्थितिकरणं चेत् । आश्रयेण जनिता या स्थितिस्तस्याः स्थिते: स्थितिः सामान्येन क्रियते । ततः साश्रयजनिता स्थितिः सामान्ये प्रतिबद्धेति । तत्रापि स्थिते: स्थितिकरणे तुल्यः प्रसङ्गः । या सा चाश्रयप्रतिबद्धायाः स्थितेः सामान्येन स्थितिः क्रियते सा आश्रयहेतुकायाः स्थितेरात्मभूता वा भवेद् व्यतिरिक्ता वा । आत्मभूतत्वे आश्रयेणैव सा कृतेति कथं सामान्येन क्रियते । व्यतिरिक्तत्वे च सैव स्थितिः सामान्येन कृता आश्रयजनिताया आद्यायाः स्थिते: किं सामान्येन कृतं स्यात् । अथ सामान्येन द्वितीया स्थितिः क्रियते । सा आश्रयेण जनितायां स्थितौ प्रतिबद्धा । तदा कः प्रतिबन्ध इति वाच्यं । सामान्य ' जनितायाः स्थितेराश्रयजनितया स्थित्याऽपरा तृतीया स्थितिः यत इति तुल्यः प्रसङ्गः इत्यनवस्था स्यात् । ततोनवस्थानादाश्रयजनितायां स्थितौ सामान्यकृतस्योपकारस्यानवधारणादस्य सामान्यस्य सम्बन्धिनीयमाश्रयेण जनिता स्थितिरित्यप्रतीतिः जननं चेत्प्रतिबन्ध इति प्रकृतं । न सामान्येनाश्रयजनिताया स्थितेर परा स्थिति: 1062 क्रियते । किन्तु सैवाद्या स्थितिर्जन्यत इति । तदा केवलं सामान्यं समर्थं स्थिति