________________
२८४
प्रमाणवात्तिकस्ववृत्तिटीका (१।१४७) .
नाभावो नाम कश्चित् कार्यः। तस्य केनचित् क्रियमाणे भाव एव स्यादिति । अभावस्यायोग्य त्वात्। तस्माद् भावक्रियाप्रतिषेधनिदेशोऽभावं करोतीत्यर्थः। तथा चायमपि अकार्यत्वात् केनचित् प्रतिबद्धः। तेनायं केनचिदप्रतिबद्धत्वात् न कदाचिदपि तिष्ठेत्। तस्माद् पातप्रतिबन्ध इत्यसावपि क्षणिकानां भावानां उपादानेन समानदेशस्योत्पादनम् । अस्तु नाम पातिनां तत्प्रतिबन्धो ऽजनकः गतिमतो द्रव्यस्य स्थापकः कश्चिद्। प्रक्रियस्य किं लक्षणां स्थिति कुर्वाणः स्थापकः स्यात् ? स्थितिर्हि तस्य स्वरूपाप्रच्युतिरेव। सा च नाश्रयायत्ता
नैव केनचित् । अभावस्याकार्यत्वादिति भावः। कथन्तीभावं करोतीति व्यपदेश इति चेदाह। अभावमित्यादि । अभावङ्करोतीति व्यपदेशे नाभावो नाम कश्चित् कार्य इष्यते। कस्मादित्याह। तस्येत्यादि। तस्येत्यभावस्य कार्यत्वाद् भाव एव स्यादित्यभिप्रायः। .
ननु यथा घटवत् कार्यत्वात् पटस्य न घटरूपता। तथा भाववन्नाभावस्य कार्यत्वादभावरूपता भविष्यतीति चेत् (1) न। घटादेरपि हि भावरूपत्वम्भवनधर्मत्वादेव (1) तच्चाभावेप्यस्तीति कथं न भावरूपत्वमभावरूपत्वेन प्रतिभासनान्न भावरूपतेति चेत् (1) न (1) अभावस्य प्रतिभासाभावात्। अभावानाम्परस्परविभागप्रतीतेर्घटाभावः पटाभावः इत्यत्र पटादीनाम्भेदो नाभावानामेकत्वेन प्रतिभासनादित्युक्तं। यत एवन्तस्माद् भावस्य या क्रिया तस्याः प्रतिषेधनिर्देशोऽभावंकरोतीति। । - अत एव स्पष्टयति । भावं न करोतीति यावदिति। यावानेवास्य वाक्यस्या
र्थस्तावानेवाभावं करोतीत्यस्यापीत्यर्थः। तथा चेति (1) पातप्रतिबन्धस्याभाव105 b मात्रत्वेनाकार्यत्वे। अयमिति कुण्डादिः। तेन कारणेनायमिति बदरादिः। केन
चित्कुण्डादिनाधारेण प्रतिबद्धः। पातादनिवारितो न कदाचित्तिष्ठेत् । सदैव पतेदित्यर्थः। तस्मादित्यादिनोपसंहारः। अपिशब्दादाधेय इत्यनेनापि व्यपदेशेन क्षणिकानां पूर्वक्षणसंगृहीतेनोपादानेन समानदेशस्योत्तरक्षणसंगृहीतस्य कार्यस्योत्पादनमुच्यते। तस्मात् सामान्येऽयमपि प्रकारो न सम्भवतीति ख्यापनायाभ्युपगम्यैतदुक्तं पातप्रतिबन्धादजनकोपि स्थापक इति।
तमेवासम्भवन्दर्शयितुमाह। अस्तु नामेत्यादि। पातिनाम्बदरादीनान्तत्प्रतिबन्धः पातप्रतिबन्धोस्तु नामाजननस्वभावः। तत्करणादिति पातप्रतिबन्धकरणात्। गतिमतो द्रव्यस्येति सक्रियस्य सामान्यस्य पुनरमूर्त्तत्वादक्रियस्य किं लक्षणां स्थिति कूर्वाण आश्रयः स्थापकः स्यात्। न हि सामान्यस्य पातोऽस्ति येन तत्प्रतिबन्धः