________________
-
२८३
४. सामान्यचिन्ता न हि जनकत्वात् ।।
साऽप्ययुक्तव; तस्य तद्भावेऽपि स्थानात्। पतनधर्माणां वस्तूनां पातप्रतिबन्धात्, अजनकस्य हि स्थापकत्वं स्यात् , अत्रापि यदि पातप्रबन्धं न पर्यनुयुंजीत। स्थापयित्रा क्रियते पात प्रतिबन्धः ततोऽर्थान्तरम् । अर्थान्तरत्वे तत्रवा स्योपयोग इति कः पततः प्रतिबन्धः? प्रतिबन्धादपातेऽपि तुल्यः । वस्था च।
तस्माद् पाताभाव': कथं केनचित् क्रियते? अभावं करोतीति चेत् 462b
गोन
त्वात् । न च भिन्नदेशावस्थिता व्यक्तिस्तस्य सामान्यस्याधारो भिन्नदेशत्वात् ।' Ioja एकत्वात् सामान्यस्य नास्ति भिन्नदेशतेति चेत् । सर्वास्तहि व्यक्तय एकजातिमत्य एकदेशाः प्राप्नुवन्ति । न च सर्वा जातिमत्यः स्युः । एकस्य कथम्भिन्नदेशावस्थितत्वमिति चेदयमपरोस्य दोषोस्तु।
पतनधर्मेत्यादिनोपचयहेतुमाह। हि शब्दश्चार्थे । अपिशब्दोभ्युपगमसूचनार्थः। अभ्युपगम्याप्ययं प्रकारः सामान्ये व्यवस्थापयितुमशक्यः। सामान्यस्यापतनधर्म त्वादित्येवमर्थमुपन्यासः । न त्वजनकस्य स्थापकत्वं सम्भवति । अत एवाह। अत्रापीत्यादि । अत्रापि पातप्रतिबन्धात् स्थापकाभ्युपगमे यदि न्यायवादी कश्चित् पातप्रतिबन्धं न पर्यनुयुञ्जीत। तदा भवेदजनकोपि स्थापकः। स्वसमयानुरोधेनेत्याकूतं । अत्राप्ययं पर्यनुयोगः सम्भवति। यः स्थापयित्रा क्रियते पातप्रतिबन्धः स स्थाप्यस्यात्मभूतो वा स्यात् ततोर्थान्तरं वा पाताभावमात्रम्वा। न तावदात्मभूतस्तत्स्वभावस्यान्यतो निष्पत्त्यभ्युपगमात् नाप्यर्थान्तरमित्याह । अर्थान्तरत्वेभ्युपगम्यमाने तत्रैव प्रतिबन्धेर्थान्तरभूतेऽस्याधारस्योपयोग इति कः पततो बदरादेः प्रतिबन्धो विघातः () नैव कश्चित् । ततश्च कुण्डादिस्थमपि बदरादि पतेदेवेति भावः। आधारकृतेनार्थान्तरेण पातप्रतिबन्धेन बदरादेरपातः क्रियत इति चेदाह। प्रतिबन्धादपातेपीत्यादि। प्रतिबन्धाख्यात् यदार्थाद् बदरादेरपातेभ्युपगम्यमाने तुल्यः पर्यनुयोगः। योयं प्रतिबन्धाख्येन पदार्थेनापातः क्रियते स किं बदरादेरात्मभूतोर्थान्तरम्वा । अर्थान्तरत्वे तत्रैवास्य प्रतिबन्धस्योपयोग इत्यादि । सर्वमनन्तरोक्तं तुल्यं । __ अथ तेनाप्यपाताख्येनार्थेन बदरादेरपातः क्रियते तत्रापि तुल्यः पर्यनुयोग इत्याह। अनवस्था चेति।
तस्मादित्यादिना तृतीयपक्षोपन्यासः। स पाताभावः कथं केनचित् क्रियते ।