________________
२८२ प्रमाणवात्तिकस्ववृत्तिटीका (१।१४७)
तदयं कुण्डादीनां वदरादिषु जननशक्तिरेव आधारोऽस्तीति चेत् । न सम्भवति साऽप्यत्र; -न हि सामान्यजननविशेषलक्षणस्याधारभावस्य सामान्याश्रयः, तस्याजन्यत्वात्।
तदभावेऽप्यवस्थितेः ॥१४॥ न स्थितिः; प्रथाधारो हि सामान्यस्थापकः, ततः स्थितिहेतुकत्वात् प्राधार एव,
कत्वमिष्यते तथा संयोगमंतरेण कार्यारम्भकत्वमेव किन्नेष्यते। अन्यथा सर्वदा संयोगारम्भकत्वं स्यात् । (२) नापि निर्विकल्पकेन प्रत्यक्षेण संयुक्ते द्रव्ये स्वरूपेण गृह्यमाणे तृतीयः संयोगः ,प्रतिभासते। (३) नापि सविकल्पके ज्ञाने संयुक्ते द्रव्ये मुक्त्वा संयोगशब्दं चापरः संयोगो विशेषणभावेन प्रतिभासते। (४) नापि संयुक्तप्रत्ययान्यथानुपपत्त्या संयोगकल्पना। उत्पन्ननिरन्तरावस्थयोरेव भावयोः संयुक्तप्रत्ययहेतुत्वात्। यावच्च तस्यामवस्था यां संयोगजनकत्वेन संयुक्तप्रत्ययविषयौ ताविष्येते तावत् संयोगमन्तरेण संयुक्तप्रत्ययहेतुत्वेन तद्विषयौ किं नेष्यते। किम्पारम्पर्येण। (५) नापि सान्तरे वने निरन्तरावभासिनी बुद्धिर्मुख्यपदार्थानुभवपूर्विका स्खलत्प्रत्ययविषयत्वेनानुपचरितत्वात्। (६) तथा न चैत्रः कुण्डलीत्यादौ चैत्रसम्बन्धिकुण्डलं प्रतिषिध्यते विधीयते वा। न संयोगः। तस्मादेकसामग्रयधीनयोरेव संयुताविति प्रतीतिः । यथा कुण्डबदरयोस्तस्मात् संयोगस्यापि कार्यकारणभाव एवान्तर्भावः। केवलं भेदान्तरप्रतिक्षेपेण संयुक्तावेतौ संयोगस्येति वा प्रतीतिर्न पुनर्वस्तुभूतसंयोगबलात्। यतश्च नास्ति कार्यकारणभावमन्तरेण वास्तवः सम्बन्धः। - तदयमित्यादि । बदरादिषु जनतशक्तिरेव कुण्डादीनामाधार इति सम्बन्धः । सामान्यस्याश्रयो जननशक्त्यैवाधारोस्त्विति चेदाह। नेत्यादि। सेति जननशक्तिः । अत्रेति सामान्ये।
न हीत्यादिना व्याचष्टे। स्वोपादानदेश एव जननं जननविशेषः स लक्षणं यस्याधारभावस्य स तथा। तस्याजन्यत्वादिति सामान्यस्य नित्यत्वेनाजन्यत्वात्। तदभावेन्याश्रयाभावेपि सामान्यस्यावस्थितेहेंतोराश्रयवशेन न स्थितिः सामान्यस्य।
अथेत्यादिना व्याचष्टे। तस्येति सामान्यस्य तदभावपीति व्यक्त्यभावेपि व्यक्तिशन्ये देशे सामान्यस्य स्थानात् । यदि हि व्यक्तिशून्ये देशे सामान्यं न भवेत्तदा 'तत्रापूर्वव्यक्त्युत्पादे सामान्यसम्बन्धो न भवेत। न हि तस्यान्यत आगमनं निष्क्रिय