________________
४. सामान्यचिन्ता
२८१ तस्मात् सर्व एव वस्तुसम्बन्धा जनकस्यैव उपकारविशेषबलात् कार्यकारणभावात् प्रविभागेन व्यवस्थाप्यन्ते।
कुण्डादिकृतमाधेयस्योपकारकरणन्तुल्यमित्यर्थः । सर्व एवेत्यादिनोपसंहारः । सर्व एव वस्तुसम्बन्धाः कार्यकारणभावावेतोर्व्यवस्थाप्यन्त इति सम्बन्धः । विभागस्तेषां न स्यादिति चेदाह । जनकस्यैवेत्यादि। यद्वा कार्यकारणभावात सकाशात् प्रविभागेन भेदेन व्यवस्थाप्यन्ते। कथम्भेद इत्याह। जनकस्यैवेत्यादि। कारणकृतः कार्यस्य य उपकारविशेषस्तस्य बलादित्यर्थः। तथा हि प्रविसर्पणधर्म णो बदरादेः स्वोपादानदेशोत्पादनलक्षणेनोपयोगेनाधाराधेयभावः। प्रदीपकृतेन च विज्ञानजननसमर्थस्वरूपोत्पादेन घटप्रदीपादीनां व्यङग्यव्यञ्जकलक्षणः सम्बन्ध इत्येवमन्यस्मिन्नपि सम्बन्धे यथायोगं वाच्यं ।
नन सर्व एव वस्तुसम्बन्धा इत्यादिना न संयोगलक्षणस्य सम्बन्धस्य कार्यकारणभावेन्तर्भाव: समानकालभाविनोरेवास्य सत्त्वात्। अथाक्षणिकपक्षे संयोगोत्पत्तिर्न युज्यते (1) क्षणिके तर्हि भविष्यति संयुक्तासंयुक्तावस्थयोश्च कुण्डबदरयोर्न स्वरूपभेदः प्रतीयते। तेनाक्षणिकेपि संयोगोस्त्येव प्रतीतेः।
यदाहो द्यो त क रः। “यदि संयोगो न नार्थान्तरम्भवेत्तदा क्षेत्रबीजोदकादयो निर्विशिष्टत्वात् सर्वदैवांकुरादिकार्यं कुर्यु नचैवं। तस्मात् सर्वदा कार्यानारम्भात् क्षेत्रादीन्यकुरोत्पत्तौ कारणान्तरसापेक्षाणि। यथा मृत्पिण्डादिसामग्री घटादिकरणे कुलालादिसापेक्षा। यो सौ क्षेत्रादिनिरपेक्षः स संयोग इति सिद्धं। कि चासौ संयोगो द्रव्ययोविशेषणभावेन प्रतीयमानत्वात्ततोर्थान्तरत्वेन प्रत्यक्षसिद्ध एव। तथा हि कश्चित् केनचित् संयुक्ते द्रव्ये आहरेत्युक्तो ययोरेव द्रव्ययोः संयोग- . मुपलभते ते एवाहरति । न द्रव्यमानं । किं च दूरतरवर्तिनः पुंसः सान्तरेपि वने 104b निरन्तररूपावसायिनी सेयं बुद्धिरुदयमासादयति मिथ्याबुद्धिर्मुख्यपदार्थानुभवमन्तरेण न क्वचिदुपजायते। न ह्यननुभूतगोदर्शनस्य गवये गौरिति विभ्रमो भवति तस्मादवश्यं संयोगो मुख्योभ्युपगन्तव्यः। तथा न चैत्रः कुण्डलीत्यनेन प्रतिषेधवाक्येन न कुण्डलं प्रतिषिध्यते तस्यान्यत्र देशादौ सत्त्वात् । तस्माच्चैत्रस्य - कुण्डलसंयोगः प्रतिषिध्यते । तथा चैत्रः कुण्डलीत्यनेनापि विधिवाक्येन न चैत्रकुण्डलयोरन्यतरविधानन्तयोः सिद्धत्वात्। पारिशेष्यात् संयोगविधानं । तस्मादस्त्येव संयोग" इति।
अत्रोच्यते। (१) यथा क्षेत्रादीनां विशिष्टावस्थाप्रतिलम्भेन संयोगारम्भ
1 Nyāyavārtika.