________________
२८०
प्रमाणवात्तिकस्ववृत्तिटीका (१।१४६) 462a सहितमपि तादृश मेवेत्यनुपकारकत्वात्। संयोगेन न तत्संयोगः स्यात् ।
तस्मादन्यस्मादुपकारात् विशेषोत्पत्तेः सामर्थ्यम्। को यमुपकारोऽजन्यजनकभूताम् ? स्वरूपसिद्धरकार्यत्वात्, पररूपक्रियायाः तत्राप्युपकाराभावाच्च । उभयथाऽप्यक्रियस्याकिञ्चित्करत्वेनानुपकारकत्वादेतच्चोक्तप्रायम् ।
ताभ्यामित्यादि परः। ताभ्यां कुण्डबदराभ्यां संयोगस्य जननात्तयोः संयोग इष्यते। द्वाभ्यामेव संयोगस्य जननमुभयत्र समवायः। परेणोक्त इत्य (व) मृश्य सिद्धान्त वा द्या ह । स इत्यादि । स संयोग एकत्रैव कुण्डे बदरे वा किन्न समवैति जन्यते वा। एकेन कुण्डेन बदरेण वा पृच्छतश्चायं भावो यदि तौ कुण्डबदराख्यौ भावौ संयोगजनने। आधारभावोपगमने वा। प्रत्येक समर्थस्वभावौ तदा किमित्यन्योन्यमपेक्षत इति। पृथगर्थन्तदुभयं परस्परसहितमेव समर्थमिति चेदाह। तदित्यादि। यत्कुण्डबदरवस्तुपृथगसमर्थम् तत्परस्परसहितमपि तादृशमेवासमर्थमेवाक्षणिकत्वादिति भावः। क्षणिकास्तु प्रत्येकं पृथगसमर्थाः पश्चात् सहकारिकृतविशेषास्सहितास्समर्था , इत्यविरुद्धं। ततश्च संयोगं प्रत्यनुपकारकत्वात् । कुण्डबदराख्यम्वस्तु। न संयोगेन तद्धात् ।
सहितस्येत्यादि परः। सहितस्य कुण्डस्य बदरस्य च तदन्योपकारात् । तस्मात्
कुण्डाद् यो यो बदरात्मा तस्मात् कुण्डस्योपकारात्। तस्माद्वा बदराद् यदन्यत् IO4a कुण्डन्तस्माद् बदरस्योपकारात् । विशेषोत्पत्तेर्हेतोः कुण्डबदरयोः संयोगस्य जनने।
आधारभावोपगमने वा सामर्थ्य न केवलयोरिति ।
कोयमित्या चार्यः । बदराणां कुण्डादीनां चाजन्यजनकभूतानां कोयमुपकारः (1) नैवास्ति । अजन्यजनकत्वमेव कथमिति चेदाह। स्वरूपेत्यादि । बदरस्वरूपस्यान्यतः हेतोरेव सिद्धरकार्यत्वान्न बदराणां जन्यत्वं नापि जनकत्वं कुण्डस्येति भावः । न हि परो बदरादीनां कुण्डादेः सकाशात् स्वरूपोत्पत्तिम्वाञ्छति। स्वहेतोरेव तेषान्निष्पत्तेः । न कुण्डेन बदररूपमेव क्रियते किन्तु ततोन्यद्रूपमित्यत आह। पररूपेत्यादि। तत्रेत्याधेये। न ह्यर्थान्तरे कृतेर्थान्तरमुपकृतं स्यात्। उभयथेति स्वरूपपररूपक्रियाभ्यां। अनन्तरोक्तेन विधिनानुपकारकस्य कुण्डादेरकिञ्चित्करत्वात् ।
एतच्चोक्तप्रायं । प्रायशब्दो बाहुल्यवचनः। प्रायेणोक्तमुक्तप्रायं। राजदन्तादेराकृतिगणत्वात् प्रायशब्दस्य परनिपातः । अयं चार्थः “कार्यश्च तासां प्राप्तोसौ जननं यदुपक्रिये” (१।१०८)त्यादि विस्तरेणोक्तः। प्रायशब्दं सदृशार्थमन्ये प्राहुः । उक्तेन सदृशमुक्तप्रायं। प्रागुक्तेनाश्रयकृतेन सामान्यस्य स्वरूपोपकारेणेदं