________________
४. सामान्यचिन्ता
प्रविसर्पतः ॥१४६॥
शक्तिस्तद्देशजननं कुण्डादेवेदरादिषु ।
२७६
प्रकृत्या
प्रसमानदेश वृदरोत्पादनधर्मस्य गुरुणो द्रव्यस्य समानदेशकार्योत्पादनभाव अधारकृतः । तस्मात् तस्य पूर्वक्षणसहकारि कुण्डं तत्रैव वदरकार्यं जनयत् श्राधार इति । श्रन्यथा कुण्डे वदराणीति व्यापारोऽपि न स्यात् । तदुपकारकृतोयं व्यपदेशोऽपि न स्यात् ।
किम्पुनः संयोगकरणेनेति चेत् । तयोरेव संयोगः सोऽपि ताभ्यामेव जननात् समवायः । स एकत्रैव किन्न समवैति तत्रासामर्थ्यात् । तत् पृथगसमर्थं
निष्पत्तेः ( 1 ) ततश्च यदुक्तं "सर्वत्र वस्तुसम्बन्धाः कार्यकारणभावान्न व्यतिरिच्यन्त" इति तदनेकान्तिकमिति मन्यते । प्रविसर्पतो देशान्तरविसर्पणशीलस्य बदरादेस्तद्देशजन'नमुपादानभूतस्य पूर्वकस्य बदरलक्षणस्य यो देशः कुण्डसम्बद्ध- 103b स्तस्मिन्नेव देशे जननमन्यत्रागमनात् । इयं शक्तिः कुण्डादेराधाराभिमतस्य बदरादिष्वाधेयेषु ।
प्रकृत्येवेत्यादिना व्याचष्टे । प्रकृत्या स्वभावेनैवा समानो देशे यस्य तत्तथोक्तं । प्रकृतिशब्दमपेक्षमाणस्यापि गमकत्वाद् बहुब्रीहिः । तथाभूतं च तत्कार्यं चेति कर्मधारयः । कार्यं च बदरादिक मेवोत्तरोत्तरक्षणसंगृहीतं । तस्योत्पादनं तदेव धर्मः स्वभावो यस्य गुरुणो द्रव्यस्य बदरादेः पूर्वक्षणसंगृहीतस्य । समानदेशकार्योत्पादनभाव आधारकृतः । आत्मना तुल्यदेशस्योत्पादकत्वमाधारकृतमित्यर्थः । यत एवन्तस्मात् पाश्चात्यस्य बदरकार्यस्य यः पूर्वक्षणः उपादानभूतस्तस्य सहकारि कुण्डं । तत्रैवोपादानक्षणदेश एव बदर' कार्य जनयत् कुण्डमाधार इत्युच्यते ।
अनेन चैकसामग्रयधीनयोः कुण्डबदरक्षणयोराधाराधेयभाव इत्युक्तम्भवति । अन्यथा यदि कुण्डेन बदराणां यथोक्त उपकारो न क्रियते तदेह कुण्डे बदराणीत्येवं व्यापदेशो न स्यात् । नियताधारस्य व्यपदेशस्य निमित्तमन्तरेणायोगात् । तदुपकारकृत इत्याधारोपकारकृतोयं व्यापदेश इह कुण्डे बदराणीति । किन्तर्हि कुण्डबदरयोर्यः संयोगस्तत्कृतः ।
किम्पुनरित्यादि सिद्धान्त वा दी । पृच्छतश्चायमभिप्रायो क्षणिकत्वे सति संयोगादीनाम्भवद्भिः कल्पनेष्यते । अक्षणिकत्वं चेद् भावानामभ्युपगम्यते संयोगादीनामेवोत्पत्तिर्न स्यादित्यर्थः । तयोरिति कुण्डबदरयोः संयोग इत्यपि व्यपदेशनिमित्तं नास्त्युपकार्योपकारकत्वाभावादित्यभिप्रायः ।