________________
२७८
प्रमाणवात्तिकस्ववृत्तिटीका (१११४५)
चासम्बन्धात्। यद्यप्यन्योन्यं नोपकार एकार्थसमवायिनः तस्यकस्य उपकाराभावे यथोक्तदोष प्रसंगात। अतः स्वोपकारद्वारेण परमपि संघटग्य ख्याप्यते। तस्मात् तत्रापि कार्यकारणभावकृत एव सम्बन्धः।
तस्मादयमाश्रयः स्वात्मन्यनुपकुर्वाणोऽनपेक्षस्याधार इति याचितकमण्डन
मेतत्।
कथमथवं सति अजनकं कुण्डं वदराणां अधार इति चेत्।
भवन्ति। एतदेव साधयन्नाह। परस्परमित्यादि । परस्परमन्योन्यमुपकारिणामन्यतो वाऽश्रयाभिमतादनुपकारिणामप्रतिबन्धादनायत्तत्वात् । अप्रतिबधन्नस्य चासम्बन्धात् कारणात् सर्ववस्तुसम्बन्धाः कार्यकारणभावान्न व्यतिरिच्यन्त इति प्रकृतेन संबन्धः।
ननु चाश्रयात् सत्युपकारे आश्रितयोः परस्परमुपकार्योपकारकभावो नैवास्तीति किमर्थमन्यतो वेत्यस्योपन्यासः। - सत्यमेतत्। किन्तु यद्यपि साक्षादन्योन्यं नोपकारस्तथाप्येककारणायत्ततया पारम्पर्येणापि सम्बन्धं कल्पयेदित्यूपन्यासः। एकार्थसमवायिनः परस्परमुपकार्योपकारकभावो नैवेष्यत इति चेदाह। यद्यपीत्यादि । तत एकस्मादाश्रयादुपकारस्याभावे ययोक्तदोषप्रसङ्गात् । अतिप्रसङ्ग भयादित्युक्तो दोषः यतश्च स्वाश्रयादेकार्थसमवायिनोरवश्यमुपकारोऽतः स्वाश्रयकृतः समवायिनोर्यः स्वोपकार आत्मोपकारस्तेन द्वारेण परमपि द्वितीयमपि समवायिनं संघटय्य प्रतिपादयित्रा ख्याप्यते समवायिनाविह सम्बद्धाविति। ____एतदुक्तम्भवति। यथा परस्यैकार्थसमवायिनोः परस्परासम्बद्धेप्येकार्थसमवायात् सम्बन्धस्तथास्माकमेककार्यत्वेन तयोः सम्बन्धः। यत एवन्तस्मात् तत्राप्येकार्थसमवायिनि कार्यकारणभावकृत एवाश्रयेण सह यः कार्यकारणभावस्तत्कृत एव यद्वारेणारोपित एव सम्बन्धः। यस्मादूपकारद्वारेणैवाधारादिभावः। तस्मादयमाश्रयः शावलेयादिः । स्वात्मनि सामान्यस्वभावेनुपकुर्वाणः सामान्यस्यानपेक्षस्याधार इति या चि तक म ण्ड न मे तत् । मण्डनमलङकारो मण्ड्यतेनेनेति कृत्वा (1). तस्य याचितकशब्देन कर्मधारयः। कस्मात् परस्माद् याचितकम्मण्डनन्दरिद्रस्यात्मन्यविद्यमानं। तद्वत् सामान्याश्रयस्यापि सामान्यं प्रत्याधारत्वं। भावसाधनो वा तृतीयासमासश्च । यथा याचितकेनालडकारेण मण्डनक्रिया। तथा सामान्याश्रयस्य परस्मात् प्राथितेनाधारभावेना धारव्यपदेशो न वस्तुस्थित्या तत उपकाराभावादिति।
१-कथमित्यादिपरः। न हि कुण्डं बदराणां जनकं। तेषां स्वहेतोरेव