________________
४. सामान्यचिन्ता
सिद्धानामाश्रयाश्रयिभावः । तदेवेहाश्रयत्वमनुपकारकस्याश्रयस्य न सम्भावयामः, अतिप्रसंग 'त् ।
२७७
तस्मात् समवायी एकार्थसमवायेत्यादिवस्तुसंबंधा वा कार्यकारणभावात् न व्यतिरिच्यन्ते । परस्परमन्यतोऽनुपकारिणा - मप्रतिबन्धात् श्रप्रतिबन्धस्य
नोपकारकत्वादाधारः किन्तु तस्य सामान्यस्य तत्राश्रये समवायात् । यदा हो द्योतकरः । " कथं तर्हि गोत्वं गोषु प्रवर्त्तते । आश्रयाश्रयिभावेन (1) कः पुनराश्रयाश्रयिभावः समवायः । तत्र वृत्तिमद् गोत्वं 14 वृत्तिः समवाय इह प्रत्ययहेतुत्वादिति । १ उपकार्योपकारकत्वाभावे समवायमसम्भावयन्नाह । कोयमित्यादि ।
अपृथगित्यादि पर: । अभिन्नदेशत्वेन सिद्धा श्रपृथक सिद्धाः । तेषां योयमाश्रयाश्रयिभावस्समवायः ।
।
तदित्यादि सिद्धान्तवा दी । तदेवेदमाश्रयत्वमनुपकारकस्याश्रयस्य न सम्भावयामः । कस्माद् (1) श्रतिप्रसङ्गात् । यद्यनुपकारकस्याश्रयत्वमिष्यते । तदा सर्वः सर्वस्याश्रयः स्यात् । न भवति ( 1 ) सर्वस्य सर्वासमवेततया प्रतीतेरिति चेत्। ननूपकारकाभावे गोत्ववत् सर्वस्यैव सर्वसमवेतत्वेनैकस्मान्न प्रतीतिर्भवतीतीदमेव चोद्यते ।
अथोपकार्योपकारकभावादेरन्य एवायं समवायलक्षणस्सम्बन्धः । स च न सर्वत्रास्तीति कथमतिप्रसंग: ।
उच्यते । सत्यं (1) केवलं क्वचित् समवेतस्य समवायो भवति । तत्समवेतत्वं च तदायत्ततया ( 1 ) तदायत्तत्वञ्चार्थान्तरस्य तदुत्पत्तिरेव । तेनोपर्युपरिभावेनोत्पत्तिरेवेह बुद्धेर्निबन्धनन्न समवाय इत्यर्थापत्तिक्षयः । उपर्युपरिभावे ( . ............) स्यात् । नाप्यसमवेतानां समवायोस्ति येन समवेतत्वं स्यात् सर्वेषां सर्वत्र समवेतत्वप्रसङ्गात् ।
1 Nyāyavārtika.
461a
उपसंहरन्नाह। तस्मा' दित्यादि । अपृथक्सिद्धयोः समवायो यथारभ्यारम्भक- 1032 योर्द्रव्ययोः पृथक्सिद्धानां संयोगः । यथाग्निधूमयोरेकस्मिन्नर्थे समवाय एकार्थसमवायः। यथा रूपरसयोरेकस्मिन् द्रव्ये । श्रादिशब्दात संयुक्तसमवेत (स्य) परिग्रहः। वस्तुभूताः सम्बन्धा वस्तूनां वा सम्बन्धा इति विशेषणसमासः षष्ठीसमासो वा । वस्तुग्रहणं कल्पनाकृतनिवृत्त्यर्थं । कार्य कारणभावान्न व्यतिरिच्यन्ते न वथा