________________
२७६ प्रमाणवात्तिकस्ववृत्तिटीका (१।१४५)
अपि च। वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते ।
यदेतदेकमनेकत्राश्रये एकां श्रुति वर्त्तयति तस्य केयं वृत्तिः? यथा कुण्डे बदराणि वर्तन्त इति माश्रय एव स्यात्। तैः प्रकाशनात् व्यक्तिरिति चेत्।
नित्यस्यानुपकार्यत्वान्नाधारः;
न ह्याधारः, अनुपकार्यत्वात् । नित्यं हि सामान्यमिष्यतेऽनित्यत्वेऽपरापरोत्पतेरनेकत्वात्, भेदेष्विवैकप्रत्ययायोगात्। नित्यस्य च किंकुर्वाण प्राश्रयः स्यात् ? तस्य तत्र समवायादाश्रयश्चेत् कोयं समवायो नाम। अपृथक्
यति। न भवेयुरित्यादीन्यनेन चादिशब्देनान्यस्यापि पूर्वोक्तस्य दोषस्य ग्रहणं । न ह्यन्येनान्ये समानानामतद्वन्तो नाम स्युः (।) तथा न जातिहदोहादावुपयुज्यत इत्यादि। अनेनैतदाह (1) जातिकल्पनायाम्बाधकं प्रमाणमस्ति। ततो न तन्निबन्धनो व्यपदेशादिः। एककार्यत्वे तु विरोधाभावात् तत्कृतमेव व्यपदेशप्रत्यभिज्ञा
नादिकं युक्तमिति । दूषणान्तरमप्याह । अपि चेत्यादि । वस्तुभूते सामान्यमिच्छता 1o2b स्वा'श्रये नैकस्मिस्तस्य प्रवृत्तिरेष्टव्या । न हि तत्रावर्त्तमानमाश्रये व्यपदेशादि
कारणं युक्तं। सा च सामान्यस्य स्वाश्रये प्रवृत्तिराधेयता वा भवेत् । तद्बलेनावस्थानात् । आश्रयबलेनोपलब्धियक्तिः सा वा वृत्तिर्भवेत्। एतद् द्वयमपि तस्मिन्सामान्ये न युज्यते। (११४४-४५॥)
यदेतदित्यादिना व्याचष्टे । यदेतदेकमिति वस्तुभूतं सामान्यमनेकत्राश्रये वर्तमानमेकां श्रुति वर्त्तयति (1) तस्य सामान्यस्य स्वाश्रये केयं वृत्तिरिति प्रश्नयित्वा स्वयमेव विकल्पद्वयमाह। आधेयता चेत्यादि। अथवा किंशब्द: प्रतिक्षेपे (1) केयं वृत्तिन काचिदित्यर्थः। तथा हि वृत्तेः स्वाश्रये आधेयता वा स्यात् । यथा कुण्डे आधारे बदराणि वर्तन्त इति। व्यक्तिर्वा तस्य सामान्यस्याश्रये वृत्तिः स्यात् तैराश्रयैर्व्यक्तेः प्रकाशनात्। तत्र यद्याधेयता वृत्तिरिष्यते। तदा व्यक्तयस्तदाधारत्वेनैष्टव्याः । नित्यं च सामान्यमभ्युपगतं व्यक्त्युत्पत्तेः पूर्वन्तदनाधेयन्ततो नित्यस्याश्रयैरनुपकार्यत्वाद्धेतोराश्रयाभिमता व्यक्तयो नाधारः।
नित्यं हीत्यादिना व्याचष्टे। अथ नित्यं नेष्यते तदाप्यनित्यत्वेऽपरापरोत्पत्तेरन्यस्यान्यस्योत्पत्तेरनेक सामान्यमनेकत्वात् कारणाद् भेदेष्विव भेदवत् तस्मिन् सामान्ये एकप्रत्ययायोगादेक स्य ज्ञानस्यायोगात् कारणात् । नित्यं सामान्यमिष्यत इत्यनेन सम्बन्धः। नित्यस्य च सामान्यस्य किंकुर्वाण प्राश्रय आधारः स्यान्नैवेत्यभिप्रायः।