________________
४. सामान्यचिन्ता
२७५ अप्रतिपक्षदोषो पक्षेपादिना दुर्मतीनां विस्पन्दितानीति ते (दोषोपक्षेपा) उपेक्षणीया एव। प्रथापि।
एकवृत्तेरनेकोऽपि यद्यकश्रुतिमान् भवेत् ॥१४५॥
न केवलं तदन्यस्माद् भेदाविशेषादेकशब्देन एककार्या उच्यन्ते । अपि - त्वेकवृत्या एकशब्देन अनेकः पदार्थ उच्यत को विरोधः स्यात्। उक्तमिह तस्य उपलभ्यतेऽभिमतं अनुपलब्धेरभावः स्यात्, अनुपलभ्यमानतायां वा तदर्शनाश्रया व्यपदेशप्रत्यभिज्ञानादयो न भवेयुरिति।
केवलं विकल्पबुद्धिसन्दर्शित एव सर्वो विधिप्रतिषेधव्यवहारः। ततश्चानित्यादिशब्देष्वनित्यादिप्रतिपक्षो नित्यादिळवच्छेद्यो नास्तीत्यप्रतिपक्षदोषस्तस्योपक्षेप उद्भावनं । प्रादिशब्दान्नास्त्यात्मेति प्रतिषेधे चाप्रतिषेधदोष इत्येवमाद्युपक्षेपश्च (1) दुर्मतीनामु द्यो त क र प्रभृतीनां विस्पन्दितानि विजृम्भितान्यसम्बद्धानीति यावत्। न हि न्यायानुगतबुद्धिरसम्बद्धमुद्भावयेत् । अतश्च ते दोषो पक्षेपा उपेक्षणीया नावधानार्हा इत्यर्थः।
अथेत्यादि परः। अपिशब्दो भिन्नक्रमः। एकस्य वस्तुनः सामान्यस्य वृत्तेरपि कारणादनेको व्यक्तिभेदः। एका श्रुतिरेकश्रुतिः। सा चाधिका अस्यानेकस्यास्तीत्येकश्रुतिमान्। एकशब्दवाच्यो यदि भवेदित्यर्थः। एककार्यत्वेनैक: शब्दबहुष्वेकेन वा सामान्येनेति न कश्चिद् विशेष इति मन्यते। अत एव व्याचष्टे। नई केवलमित्यादि। तदन्यस्मादतत्कार्याद्यो भेदस्स एव सर्वेषां तत्कार्याणामविशेषस्तस्मादेकशब्देनोच्यन्ते। अपि त्वेकवृत्त्याप्येकस्य सामान्यस्य वर्त्तनेनाप्यनेकः पदार्थ एकशब्देनोच्येत को विरोधः स्यात् । यथैककार्यत्वेन बहुष्वेकशब्दप्रवृत्तौ नास्ति विरोधस्तथा वस्तुभूतेनापि सामान्येन। तस्माद् वस्तुभूतसामान्यकल्पनापि युक्तैवेति भावः।
उक्तमित्या चा र्यः। तस्य वस्तुभूतस्य सामान्यस्य उपलभ्यते रूपेणाभिमतं । अभिमतत्वे उपलभ्यत्वं करणत्वेन विवक्षितमिति कर्तृ करणे कृतेत्येव समासः। उपलब्धिलक्षणप्राप्तस्य व्यक्तिव्यतिरेकेणानुपलब्धेरभावः सामान्यस्येति वाक्यार्थः । अनुपलभ्यमानतायाम्वाऽङ्गीक्रियमाणायान्तद्दर्शनाश्रया इति सामान्यदर्शनाश्रया व्यपदेशप्रत्यभिज्ञानादयो न भवेयुरिति। उक्तमिति सम्बन्धः। बहुष्वेकशब्दो व्यपदेशस्तुल्याकारं ज्ञानं प्रत्य भि ज्ञानं। आदिशब्दात् सामान्याश्रया व्यक्ती प्रवृत्तिर्न भवेदित्यादेः परिग्रहः ।
न हि स्वयमनुपलभ्यमानमुपलम्भनिबन्धनं व्यपदेशप्रत्यभिज्ञानमन्यत्र प्रवर्त्त