________________
२७४
प्रमाणवात्तिकस्ववृत्तिटीका (१।१४४) ___ तथा तत्कार्यप्रतिषेधेनाचाक्षुषः शब्दः। अनित्योऽनात्म इति च।
तत्कारणप्रतिषेधेनास्वामिकः शून्य इति। एवमन्यदपि यथायोगम्। शून्य461b नित्यादिशब्दानां बुद्धौ यथाकथितं समीहिताकारं विकल्प्य तद्व्यवच्छेदेन
व्यपदेशः क्रियते। सर्वे हि शब्दार्था बुद्धिसमीहा निर्दिष्टविभक्तित्वात् ।
प्रतिषेधमुखेनाह। तथेत्यादि। तस्य चाक्षुषस्य नीलादेर्यत् कार्यञ्चक्षुर्विज्ञानन्तस्य प्रतिषेधेनाचाक्षुषः शब्दः। न समर्थञ्चक्षुर्विज्ञानं प्रतीत्येवमचाक्षुषशब्देन सामान्येनोच्यते। अनित्यशब्दोपि नित्यव्यवच्छेदेन व्यवस्थाप्यमानः । तत्कार्यप्रतिषेधेनैव। तथा हि नित्यं परैर्वस्त्वेवेष्टन्तच्चासाध्यसाधनभतं व्यवहारपथं नावतरतीति साध्यसाधनं चाङ्गीकर्तव्यं । नित्यकार्यप्रतिषेधेनानित्यः। आत्मशब्दोपि क्वचित् कार्ये स्वतन्त्रस्य ख्यापनाय कृत इत्यनात्मशब्दोऽतत्कार्यव्यवच्छेदेन स्यात् ।
एवं कार्यप्रतिषेधेनाभिधाय कारणप्रतिषेधेनाह। तदित्यादि। तस्य सस्वामिकस्याशून्यस्य च यत्कारणन्तस्य प्रतिषेधेनायं शब्दादिको भावोस्वामिकः शन्य इति व्यवहारार्थं ख्याप्यत इति सम्बन्धः। तथा हि स्वतन्त्रेणात्मादिना योधिष्ठितस्स सस्वामिक: परैरिष्यते। एवमशून्योपि तथाभूतेनाधिष्ठात्राधिष्ठितत्वादेवाधिष्ठिता चाधिष्ठातव्यस्वीकरणमन्यथाधिष्ठातृत्वायोगात्। तस्मात् सस्वामिकादि शब्दाः कारणद्वारप्रवृत्ताः परेषां। न प्रतिक्षणविशरारुषु भावेषु सामग्रीमात्रप्रतिबद्धेषु व्यवस्थितस्वभावः कश्चिदधिष्ठातास्ति यत्प्रतिबद्धास्संस्काराः प्रवर्तन्ते। ततोस्वामिकाः शून्याश्च यथोक्तकारणप्रतिषेधेन व्यवस्थाप्यन्त इति । एवमन्यदपीति। दुःखाशून्यानाथाप्रतिशरणादिकमपि। यथायोगमिति किंचित्कार्यप्रति षेधेन किंचित्कारणप्रतिषेधेनेत्यर्थः। दुःखाशून्यादिकार्यप्रतिषेधेन सुखशून्यादीनामप्रातिकूल्यकार्यत्वेन व्यवस्थाप्यमानत्वात् । सर्वस्य च संस्कृतस्य विपरिणामधर्मित्वेन । प्रतिकूलत्वात् । अनाथाप्रतिशरणादि। कार्यप्रतिषेधेन स्वतन्त्रस्य नाथादेरभावात्। तदेवं कार्यकारणयोविधिप्रतिषेधमुखेन चतुष्टयी शब्दानाम्प्रवृत्तिराख्याता भवति।
ननु चाशून्यनित्यादेर्व्यवच्छेद्यस्याभावात् कथं शून्यादिशब्देष्वन्यव्यवच्छेदाभिधानमिति चेदाह। शून्येत्यादि। यथाकथितमिति यस्य यादृशी सिद्धान्ताश्रयण
कल्पना तया समीहितो रचितो शून्यनित्यादीनां य प्राकारस्तं विकल्प्य बुद्धावारोप्य 102a तद्वयवच्छेदेन परपरिकल्पिताऽशून्याद्याकारव्यवच्छेदेन शून्यादिव्य'पदेशः क्रियते।
कस्मादित्याह। बुद्धीत्यादि। बुद्धस्समीहा इममर्थमारोपयामीति संकल्पः। तथा स (व............ ) सांकर्यं यस्य शब्दस्य स तथा तद्भावस्तस्मात्। सर्वग्रहणादेतदाह। यत्रापि वस्तुभूते......................ति।
एतदुक्तम्भवति। न वस्तुस्वलक्षणं शब्दैः स्वरूपेण विधीयतेऽपनीयते वा (1)