SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ४. सामान्यचिन्ता २७३ स्थाविशेषवाचिनः शब्दाः सनिदर्शनाः सप्रतिघा इति तदन्येभ्यो भेवसामान्यन निर्दिश्यन्ते। यथैककार्याः तत्कार्यचोदनायाँ तदन्यस्मात् घटादे देन शब्दैः कृतसमयाः। तथा कारणापेक्षया अनेकोऽपि एकेन व्यवहारार्थमेव । यथा शवलाया अपत्यानि बहलायाश्चापत्यानि । शब्दः प्रयत्नानन्तरीयकः। कृतको वेति। दिपरमाणवः पृथगिति नीलपीतादयः परस्परानपेक्षाः समस्ता वेति परस्परसहिताः । क्वचिदिति चक्षुर्विज्ञाने स्वदेशे परस्योत्पत्तिप्रतिबन्धे वा सकृदेव प्रत्यायनार्थं। एकस्माच्छब्दाद् बहूनां निश्चयार्थं । तत्र ये चक्षुर्विज्ञाने उपयुज्यन्ते । तेवस्थाविशेषवाचिनः सनिदर्शना इत्युच्यन्ते। ये स्वदेशे परस्योत्पत्ति प्रतिघ्नन्ति। ते सप्रतिघा इति। ननु नीलपीतादयोऽत्यन्तभिन्नास्ते कथमेकेन सनिदर्शनादिशब्देनोच्यन्त इत्यत 'आह। तदन्येभ्यो भेदसामान्यनेति। तदन्येभ्योऽनिदर्शनाप्रतिघेभ्यो यो भेदस्स एव तेषां सामान्यं सर्वेषान्ततो व्यावृत्तत्वात्। तेन हेतुना। सनिदर्शनादिशब्दा अपि परमाणुसमुदयाऽभिधानात् समुदायशब्दा एवेति चेत् (1) न। एकस्यापि परमाणोः सप्रतिघादिशब्दरभिधानात् । कार्यद्वारेण शब्दप्रवृत्तिमुक्त्वा कारणद्वारेणाह। यर्थककार्या रूपादयस्तत्कार्यचोदनायां। तदुदकधारणाद्येकं कार्य यस्य रूपादिसामर्थ्यस्य तस्य चोदनायामेकशक्तिचोदनायामित्यर्थः । तदन्यस्मात् घटादेर्भेदेन घटादिशब्दैः। आदिग्रहणाद् ब्रीह्यादिपरिग्रहः । कृतसमयाः ख्याप्यन्त इति प्रकृतं। तथा कारणापेक्षयाप्यनेकोर्थः एकेन शब्देन कृतसमयः ख्याप्यत इति वचनपरिणामन सम्बन्धः व्यवहारार्थमेव लाघवेनेत्यर्थाद् द्रष्टव्यं । यथा शवलाया गोरपत्यानि सर्वाण्येवैककारणत्वेन शावलेयशब्देनोच्यन्ते बहुलायाश्चापत्यानि बाहुलेयशब्देन ।' यावांश्च पुरुषप्रयत्नेन IOIb कारणेन जनितः शब्दः सर्वः समानकारणजन्यत्वेन प्रयत्नानन्तरीयकः कथ्यते। करिष्यामीति चेतना प्रयत्नः। तस्यानन्तरमव्यवधानन्तत्र भव इति ग्रहादेराकृतिगणत्वाच्छः । देशग्रहणन्तत्र न स्मर्यते। तस्य स्वार्थिकः कन्। एतच्च कारणविशेषापेक्षयोक्तं। कारणमात्राश्रयेणाह। कृतको वेति। कारणायत्तजन्मनः . प्रयत्नानन्तरीयकस्यान्यस्य च सर्वस्य कृतक इत्यभिधानात् । एवन्तावद्विधिमुखेनोक्तं। ३५
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy