________________
२७२
प्रमाणवार्तिकस्ववृत्तिटीका ( १।१४४ )
नुपलम्भात् । एकवचनग्रहणं तु एकशक्तिसूचनार्थं संकेतपरतंत्रं वा । तथा हेतुफलविशेषभूताः किंचिद् एकं साधयन्ति साध्यन्ते च तेऽपि सकृत् प्रतीत्यर्थं ब्रीह्यादिशब्दः कृतसंकेताः पूर्ववत् कथ्यन्ते ।
sपि पृथक् समस्ता वा क्वचित् सकृदेव प्रत्यायनाथं उपयुज्यन्ते, तेऽव
रूपादिव्यतिरिक्तन्द्रव्यं । तस्यावयविनस्तादृशस्येति रूपादिव्यतिरिक्तस्य । उपलब्धिलक्षणप्राप्तश्चावयवी परैरिष्टो दार्शनं स्पार्शनं द्रव्यमिति वचनात् । तेनोपलब्धिलक्षणप्राप्तत्वेनाभ्युपगतस्य रूपादिव्यतिरेकेणानुपलम्भादिति वाक्यार्थः । यथावान्तरेणाप्यवयविनं परमाणव एव प्रत्यक्षस्य विषयस्तथा द्वितीये परिच्छेदे प्रतिपादयिष्यते ।
यदि रूपादय एव संहता घटः कथन्तहि बहुषु घट इत्येकवचनमिति चेदाह । एकवचनमित्यादि । यथा बहुष्वेकः शब्द एकशक्ति सूचनार्थस्तथैकवचनमपि । तेषां रूपादीनामेकस्मिन्नुदकाहरणकार्ये या शक्तिस्तस्याः सूचनार्थं । एककार्यकर्त्तृत्वेन - तेष्वेकत्वमारोप्यैकवचनमित्यर्थः । न पुनस्तेष्वेका शक्तिविद्यते । अनपेक्षितबाह्यार्थ मकवचनं संकेतपरतन्त्रम्वा । एतच्च "येषां वस्तुवशा वाच" ( १।६६ ) इत्यादिना प्रतिपादितं । सन्तानाभिधायिनः शब्दानधिकृत्याह । तथेत्यादि । हेतुश्च फलं च हेतुफले । तयोर्विशेष उपादानोपादेयभावेनैकसन्तान. .. नाश्रयत्वं । तम्भूताः प्राप्ताः प्राप्तिवचनो भवतिः सकर्मकः । साधनं कृतेति द्वितीयातत्पुरुषः । हेतुफल1012 विशेषो' वा भूतो निष्पन्नो येषामिति बहुव्रीहिः । आहितादेराकृतिगणत्वाद् भूतशब्दस्य परनिपातः । किंचिदेकं साधयन्तीति । यथांकुरनाडपत्रादयः फलमेकं । साध्यन्ते चैकेन । यथा त एवोपादानभूतेन बीजेन । तेप्यकुरादयो नैकक्षणात्मकाः सकृत्प्रतीत्यर्थः । तेनैककार्यत्वेनैककारणत्वेन वा साम्येन ब्रीह्यादिशब्दः सन्तानाभिधायिभिः कृतसंकेता: संकेतकाले । पश्चाद् व्यवहारकाले कथ्यन्ते व्यवहारलाघवार्थं। अभेदेन प्रबन्धजिज्ञासायां बीजांकुरादिभेदेनानेकशब्दप्रयोगस्य वैफल्यात् । आदिग्रहणेन मनुष्यादिशब्दग्रहणं । तैरपि बालकुमारादिभेदभिन्नस्य प्रबन्धस्याभिधानात् ।
ननु ब्रह्मादिशब्दा अपि समुदायशब्दा एव रूपादिसमुदायाभिधायित्वात् । सत्यं । किन्तु हेतुफलविशेष' फलप्रबन्धाभिधानादेवमुच्यते (1) तथा समुदायशब्दोनेकसमुदायापेक्षया जातिशब्दो भवत्येवमवस्थाशब्दोपि ( 1 ) केवलं विशिष्टार्थविवक्षया कश्चिच्छब्द इत्युच्यत इत्यदोषः । यथा च घटस्य रूपादयः घट इति चैकवचनं येन निबन्धनेनोक्तं । तथा ब्रीहे रूपादयो ब्रीहिरिति नैकवचनं द्रष्टव्यमत एवाह । पूर्ववद्वाच्यमिति । अवस्थाशब्दानधिकृत्याह । येपीत्यादि । येपि नीला