________________
४. सामान्यचिन्ता
२७१ घट इत्येक शब्दं तेषु प्रयुक्त लोकः। तेऽपि सजातीयादन्यतश्च भेदाविशेषेऽपि तत्प्रयोजनाङ्गतया तदन्येभ्यो भिद्यन्त इति भेदात् तस्मात् अविशेषण प्रतीयन्त'। तत्र घटस्य रूपादय इत्यपि घटस्वभावा रूपादयः। उदकाहरण- 46ob विशेषादिकार्यसमर्था इति। सामान्यकार्यमात्रसाधने प्रसिद्धनात्मना वा रूपादिशब्दः प्रसिद्धा विशिष्टकार्यसाधनभूताख्यविशिष्टाः ते च एवमुच्यन्तेस्य । न पुनरत्र यथावर्णितलक्षणं द्रव्यं अन्यत् किञ्चिदपि। तस्य तादृशस्या
रूपादिभिन्नेन शब्देन चोदनानिष्फलेति कृत्वा सकृदेककालं सर्वेषां क्वचित् कार्ये नियोजनार्थं रूपादिविशेषेषूदकधारणादिकार्यसमेष घट इत्येक शब्दं प्रयुंक्तेऽयं लोक इति व्यवहर्ता । (११४३॥)
ननु भिन्ना एव रूपादयः कथमेकस्माद् घटशब्दाद् अभेदेन प्रतीयन्त इति चेदाह । तेपीत्यादि। सजातीयाद् रूपादयतश्च रसादेर्भेदाविशेषेपि । तत्प्रयोनाङ्गतया। विशिष्टोदकाद्याहरणकार्याङ्गतया। तदन्येभ्य इति तत्कार्यकरणासमर्थेभ्यः पटादिभ्यो भिद्यन्त इति भेद एवैषामभेदस्ततोऽभेदात्। तस्मादभेदादविशेषेणैव सामान्येनैवैकस्माद् घटशब्दात् सर्वे रूपादयः प्रतीयन्ते। ___ यदि रू'पादय एव केवला घटो न तु तद्व्यतिरिक्तं द्रव्यं (1) कथन्तर्हि घटस्य Ioob रूपादय इति व्यतिरेक इति चेदाह। तत्रेत्यादि। घटस्य रूपादय इत्यपि यो व्यतिरेकस्तस्यायमर्थो घटस्वभावा रूपादयो न पटादिस्वभावा इति ।
एतदेव व्याचष्टे । उदकेत्यादि। उदकाहारणस्य विशेषो घटादन्येनासाध्यत्वं । आदिशब्दादन्यस्यापि घट साध्यस्य कार्यस्य परिग्रहः। तस्मिन् कार्ये समर्थाः सप्तमीति योगविभागात्समासः। अयमत्रार्थः (1) रूपादिशब्दा रूपादीन् रूपसाध्यकार्यमात्रशक्तियुक्तानविशेषेण प्रतिपादयन्ति । घटशब्दस्तु विशिष्टकार्यशक्तियोगेन पटादिस्वभावेभ्योपि रूपादिभ्यो भेदेन विशिष्टान् रूपादीनाह। अतो घटस्य रूपादय इति शब्दद्वयव्यापारेण सामान्यविशेषाकारबुद्धयुत्पत्तेः सामान्यविशेषभावो व्यतिरेकविमतिश्च प्रयुज्यत इति। एतमेव सामान्येत्यादिनाह । सामान्यकार्य रूपादिमात्रसाध्यन्तस्य सिद्धिः साधनन्तस्मिन् प्रसिद्धनात्मना स्वभावेन । इत्थंभूतलक्षणा तृतीया। हेतौ वा। इत्थंभूतेन रूपेण हेतुना वा रूपादिशब्दैः करणभूतैः प्रसिद्धास्सन्तः विशिष्टं कार्य घटसाध्यं घटसाध्यमेवोदकाहरणादि। तस्य साधनं साध्यतेनेनेति कृत्वा। तथाभूता आख्या संज्ञा यस्य स तथा तेन विशिष्टाः। त इति रूपादय एवमुच्यन्त इति।
न पुनरत्र रूपादिसंहतौ ह्यत्र वा घट इति व्यवहारे यथावणितलक्षणमिति