SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७० प्रमाणवात्तिकस्ववृत्तिटीका (१।१४४) भासमनोव्यापाराणां वा आत्मेन्द्रियमनोर्थसन्निकर्षेषु रूपविज्ञानककार्याणां सामान्यकार्यचोदनासम्भवे कुतो रूपविज्ञानमिति व्यवहारलाघवार्थ गौरवे कश्चित् साङ्केतिको रूपविज्ञानहेतुः सरः शरो वेत्येवं श्रुति निवेशयेत् । अपि नाम तद्धेतूनां सर्वेषां सकृत् यथा प्रतिपत्तिः स्यात्। न चात्रानुगामिना रूपेण किंचिदपि। अतदर्थेभ्यस्तेभ्यो भिन्ना एव व्यावृत्तिः। समूहसन्तानावस्थाविशेषशब्दाः समस्ता अपि तथाकाराः किञ्चित् कार्य तेषां तत्र विशेषाभावात् अपार्थिका विशेषचोदनेति सकृत् सर्वेषां नियोजनार्थं एषामभेद इति यावत्। एतेन तत्कार्यतापीत्यादि का रि का भागो व्याख्यातः । (११४१॥) यथेत्यादिना चक्षुरादौ यथा रूपविज्ञानैकफल इत्यादि व्याचष्टे। प्रात्मेन्द्रिय100a मनोर्थसन्निकर्षेष्विति परप्रसिद्धयोक्तं। रूपविज्ञानमेकं कार्य येषामिति विग्रहः । (११४२॥)तद्रूपविज्ञानं कार्यं येषान्तानि तत्कार्याणि तेषां सामान्यमविशेषेणैककार्यकरणसामर्थ्यन्तस्य चोदना प्रकाशना। तस्याः सम्भवे सति (1) केन पुनः प्रस्तावेन चोदनासम्भव इत्याह। कुतो रूपविज्ञानमित्यविशेषेण सामग्रीगते प्रश्ने सतीत्यर्थः ।। व्यवहारलाघवार्थमेकेन शब्देन बहूनां प्रतिपादनार्थं रूपविज्ञानस्य हेतुश्चक्षुरादिकलापः सरः शरो वेत्येवं श्रतिन्निवेशयदिति सम्बन्धः। अपि नामेत्यादिना व्यवहारलाघवमेव व्याचष्टे। तद्धेतूनां चक्षुर्विज्ञानहेतूनां। न चात्रेति चक्षुरादौ। येनानुगामिना रूपेणकं चक्षुर्विज्ञानं जनयन्ति । तथाभूतं सामान्यञ्च क्षुरादीनान्नास्ति (1) सत्ता विद्यत इति चेत्। तस्यास्तहि सर्वत्राविशेषात् सर्वत्र चक्षुरादिविज्ञानं स्यात्। न च सम्बन्धिभेदात् सत्ताया भेदो नित्यत्वेनानाधेयातिशयत्वात्। केवलन्तदर्थतया रूपविज्ञानैककार्यतया भावाश्चक्षुरादयः । अतदर्थेभ्यो रूपविज्ञानाजनकेभ्यो भिन्ना इति कृत्वा भेद एवातत्कार्येभ्यो व्यावृत्तिरेव। एषां चक्षुरादीनामभेद: सर्वेषामतत्कार्यव्यावृत्तेस्तुल्यत्वात्। यथा चक्षुरादीनामभेद: सर्वेषामतत्कार्यव्यावृत्तेस्तुल्यत्वात् । यथा चक्षूरूपादिष्वेकं सामान्यं विनाप्येककार्यत्वख्यापनायैक: शब्दो निवेश्यते। एवंजातीयाः सर्व इत्यादि । समूहस्य सन्तानस्यावस्थाविशेषस्य च वाचकाः शब्दाः समूहसन्तानावस्थाविशेषशब्दाः। तत्र समूहाभिधायिनं शब्दमधिकृत्याह। ये समस्ता इत्यादि। ये रूपरसगन्धादयस्समस्ताः किञ्चिदेकमुदकाद्याहरणादि कार्य । तेषां रूपादीनां । तत्र कार्य कारणतया विशेषाभावात्। सर्वेषां ह्येकं कार्यमिति कृत्वा तेनैककार्यत्वेन विशेषाभाव उच्यते। न त स्वलक्षणस्याविशेषात।। तेषामेककार्यकरणशक्तिख्यापनमात्रे कर्त्तव्येऽपार्थिका विशेषचोदना। प्रति
SR No.002370
Book TitlePraman Varttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherKitab Mahal
Publication Year
Total Pages642
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy