________________
४. सामान्यचिन्ता
२६६
यदि हि एकत्राऽपि प्रयोक्ततुरिच्छा न भवेत्, कथं प्रवर्तेत, इच्छायां वा बहुष्वपि व्याघातात् शक्येत। प्रयोजनाभावात् नात्र निवेशनमिति चेत्। प्रयोजनं हि प्रतत्प्रयोजनेभ्यो भदेन भिन्नेषु एकस्मात् प्रतीतिः इत्युक्तं प्राक, न पुनः स्वभावस्यकत्वात्। ___ यथास्वं व्यवस्थितस्वभावानां अन्योन्यरूपासंश्लेषात् कथं भिन्नेषु एकस्वभावनिमित्तः शब्दो' भवेदिति उक्तं पुरस्तात्।।
46oa अतत्प्रयोजनेभ्यो व्यावृतिस्तु भिन्नानामप्यविरुद्धेति प्रयोजनाभेदः शब्दाभेदस्य कारणं भवतु। तेनेमे तत्प्रयोजनाः, तथा चेत् अतत्प्रयोजनेभ्यो भिन्ना एवोक्ताः। न पुनरेषामन्या तत्कार्यता, अन्यत्रान्यतो भेदात्। यथा चक्षुरूपप्रति
वक्तुरिच्छावशात् । तथा न यदि प्रयोक्तुरिच्छा भवेत् । कथमियमेका श्रुतिरेकत्रापि प्रवर्तत। नैवेत्यभिप्रायः। तथैक त्रापि प्रवर्त्तयितुमिच्छैव कारणं। न वस्तुशक्ति (:।) तदा बहुष्वपि न कश्चिद् व्याघात इत्याह । इच्छायां वेत्यादि। एक त्रापि प्रवर्तयितुमिच्छायां कारणत्वेन कल्प्यमानायां । एनामेकां श्रुति । प्रयोजनाभावादित्यादि । न ह्येकम्वस्तुविना बहुष्वेकशब्दनिवेशनं फलवत् । उक्तं प्राक् । किमुक्तमित्याह। भिन्नेष्वित्यादि। भिन्नेषु शावलेयादिभेदेष्वेकस्माद् गोशब्दात् प्रतीतिरतत्प्रयोजनेभ्यो भेदेन। तद्गोभेदसाध्यं वाहंदोहादिकं कार्य प्रयोजनं न भवति येषामश्वादीनान्तेभ्यो भेदेनेति। किं पुनर्वस्तुभूतमेवैकत्वं न चोद्यत इत्यत आह। न पुनः स्वभावस्यकत्वान्न पुनर्वस्तुभूतस्य सामान्यस्यैकत्वाद् भिन्नेष्वेका श्रुतिः। तस्यैव सामान्यव्यतिरिक्तस्याव्यतिरिक्तस्य चायोगात् । (११३६॥)
भवतु नाम सामान्य व्यतिरिक्तन्तदपि तस्मिन् स्वभावे व्यवस्थितममिश्रमेव । तदेवाह। यथास्वमित्यादि। यस्य यल्लक्षणन्तेन व्यवस्थितस्वभावानामन्योन्यरूपासंश्लेषात् कथमेकनिमित्तः सामान्यनिबन्धनः शब्दो भिन्नेषु भवेत् । नैवेत्यभिप्रायः। न ह्यन्येनान्ये समाना भवन्ति। एतच्चोक्तं प्राक् । सर्वे भावाः स्वभावेन. स्वस्वभावव्यवस्थि तेरित्यत्र (१९४२) प्रस्तावे। ___अन्यापोहवादिनस्त्वयमदोष इत्याह। अतत्प्रयोजनेत्यादि । अतत्प्रयोजनेभ्यो व्यावृत्तिस्तु भिन्नानामप्यविरुद्धेति कृत्वा स एतत्प्रयोजनेभ्यो भेदस्तत्प्रयोजना. नामभेदस्तद्वयावृत्तेः सर्वत्र भावात्। शब्दाभेदस्य कारणम्भवतु। यतश्च न कथंचिद् वस्तुभूतं सामान्यं घटते। तेनेमे गोभेदास्तत्प्रयोजना वाहदोहप्रयोजना इति यदुक्तन्तत् । अतत्प्रयोजनेभ्योऽश्वादिभ्यो भिन्ना एवोक्ताः। (११४०॥) .
न पुनरेषामन्या तत्कार्यतान्य त्रान्यतो भेदात्। अन्यव्यावृत्त एव स्वभाव