________________
२६८
प्रमाणवात्तिकस्ववृत्तिटीका ( १ ।१४४ )
तद् वा वस्तुशक्त्यैव एकां श्रुति उत्थापयतीति चेत् । नास्ति तद् । किं तर्हि केचित् प्रयोजनेन कञ्चिच्छन्दं निवेशयेत् । तत्र चेद् एकत्रानेकं उपयुज्येत । तद्धि तत्रावश्यमेकेनैव शब्देन चोदयितुं युक्तम् । तस्य पृथक् पृथक् चोदने गौरवं स्यात् । न चास्य अनन्यसाधारणं रूपं चोदयितुं शक्यं श्रत्र च न गौरवं वैफल्यं वा केवलमनेन तत्र तेऽर्थाः चोदनीयाः । त एकेन वा शब्देन चोद्येरन् बहुभिर्वेति स्वातंत्र्यमत्र वक्तुरिति चेत् इयमेका श्रुतिर्वहुषु वक्तुरभिप्राय ( वशात्) प्रवर्तमाना नोपालम्भमर्हति । न चेयमशक्यप्रवर्त्तना, इच्छाधीनत्वात् ।
सामान्यं वस्तुशक्त्यैवेति । पुरुषव्यापारमनपेक्ष्य । एकां श्रुतिं ध्वनयत्युत्थापयति । नास्त्येव तद् द्वयमपि। अन्तरेण प्रयोजनं पुरुषव्यापारञ्च प्रयोगाभावात् । तदेव किन्तत्यादिनाह । केनचित्प्रयोजननेति । एभ्यः शब्देभ्यो व्यवहारे । तदतत्साधनमर्थं ज्ञात्वा प्रतिपद्येतेति । अनेन प्रथमविकल्पाभावमाह ।
निर्देश्यन्त इत्यनेन द्वितीयस्य । निर्देश्यन्ते संकेत्यन्ते व्यवहर्तुकामैरित्यध्याहारः । तत्रैतस्मिन् न्यायेऽनेकं कारण मेकत्र कार्ये उपयुज्येत व्याप्रियेत । तदित्यनेकं । कुतः कारणकलापात् तदुत्पद्यत इत्येव । तत्रैतस्मिन् कार्ये व्यवहर्तुकामैरवश्यन्तच्चानेकङ्कारणमतत्कार्यव्यावृत्तिलक्षणमेककार्यतामाश्रित्यैकेनैव शब्देन चोदयितुं युक्तं । अनेकेन चोदने दोषमाह । तस्येत्यादि । पृथक् पृथगिति भिन्नैः शब्दैः । एतच्च स्वलक्षणशब्दनिवेशमभ्युपगम्योक्तम् (1)
एतदेव न सम्भवतीत्याह । न चेत्यादि । अस्य वस्तुनः । श्रनन्यसाधारणं रूपमिति । नान्यसाधारणमनन्यसाधारणं स्वलक्षणमित्यर्थः । नाप्यस्येत्यनेकशब्दनिवेशनस्य ।
एतच्च गौरवाशक्तिवैफल्यादित्यस्य यथाक्रमं विवरणं । कस्माद् वैफल्यमिति चेदाह। केवलमित्यादि । अनेन प्रयोक्त्रा तत्रैतस्मिन् कार्ये । तेर्थाः कारणभूता99b चोदनीया इत्येतावत् प्रयोजनं । ते तु कारणभूताः पदार्था एकेन वा शब्देन चोद्येरन् बहुभिर्वेति स्वातन्त्र्यमत्र चोदने वक्तुः । यत एवन्तदिति तस्मादियमेका श्रुतिर्बहुषु वाच्येषु वक्तुरभिप्रायवशाद् हेतोः प्रवर्त्तमाना नोप ( 1 ) लम्भमर्हति । बहुष्वेका श्रुति शक्या प्रवर्त्तयितुमिति चेदाह । न चेयमित्यादि । इयमेका श्रुतिः । श्रशक्यं प्रवर्त्तनमयस्या इति विग्रहः । कस्मान्नाशक्यप्रवर्त्तनेत्याह । इच्छाधीनत्वाद् इच्छाया। अधीनमशक्यप्रवर्त्तनं । यदि ह्येकत्रापीत्यादि । तथा हीच्छयैव तत्र परपरिकल्पिते सामान्ये न वस्तुस्थित्यैव एकस्याः श्रुतेः प्रवत्तिः ( 1 ) किन्तर्हि -