________________
४. सामान्यचिन्ता
२६७ कुर्याहतेऽपि तद् रूपं सामान्याद् व्यतिरेकिणः ।
अभिन्नमभन्तरेण यथा बहुषु एका श्रुतिः, तेषां एकवृत्तेरन्यत्र प्रत्ययाजननात्। अप्रत्यासत्ति के च प्रत्ययजननेऽतिप्रसंगात्, तेषु च एक श्रुतिप्रवृत्तौ 459b अर्थाभाव एकार्थनियोगाभावात्, भिन्नस्वभावानां पृथक् नियोगे यथाचोदितानां विभागापरिज्ञानात् इति । तस्यापि एकमेवेति लोकेन शब्दो निवेशनीयो।
कार्यत्वं चोद्यते। तदा नैका श्रुतिस्तेषु संकेत्यत इत्यर्थः। सकृदेककालं सर्वस्य कारणकलापस्य प्रतीत्यर्थ । ऋतेपीत्यादि। तेषां चक्षुरादीनान्तद्रपसामान्यस्येत्येककार्यत्वलक्षणस्य सामान्यस्य व्यतिरिक्तस्याभावेपीत्यर्थः। सत्तैवं तेषां सामान्यमिति चेन्न तस्या अविशेषात् सर्वदा सर्वत्र चक्षुर्विज्ञानप्रसङ्गात् । अभिन्नमर्थमन्तरेणेति सामान्यम्वस्तुभूतम्विना। बहुषु शावलेयादिषु। तेषामिति शावलेयादिभेदानां । यदि तेषां सामान्यं स्यात्तदा तत्र सामान्ये शब्दनिवेशात् सर्वत्र भेदे निवे• शितः स्यात् । एकन्तु सामान्यं विना बहुष्वेकशब्दसन्निवेशो न युक्तः। ततश्चासौ शब्दः संकेत्यमान एकत्रैव भेदे संकेतितः स्यात् । तथा चैकवृत्तेरेकत्र भेदे कृतसन्निवेशस्यान्यत्र भेदे विलक्षणे प्रत्ययाजननात् । द्वितीया गोव्यक्तिस्ततः शब्दाद् गौरित्येवं न प्रतीयेत । तत्र प्रत्यासत्तिनि'बन्धनस्य सामान्यस्याभावात् । स्वभावानुगमा- 99a भावेपि शावलेये निवेशितोऽप्रत्यासन्ने बाहुलेये प्रत्ययं जनयिष्यतीति चेदाह। अप्रत्यासत्तिके चेत्यादि। अतिप्रसङ्गात् । गौशब्दादश्वेपि प्रतीतिः स्यात्। एवन्तावदेकं सामान्यं विना बहष्वेकशब्दनिवेशाभाव उक्तः । ___ अभ्युपगम्य वैफल्यमाह। तेषु चेत्यादि। तथा हि बहुष्वेका श्रुतिनिवेश्यतेऽनेकवत्ति मेकमर्थं प्रतिपादयितं। तानेव वा भेदान असंकरेण। तत्राद्यस्याभावमाह। एकार्थनियोगाभावादिति । यद्येकस्मिन्नर्थे शब्दस्य नियोगः स्यात तदा भवेदेकार्थप्रतिपादनं। द्वितीयाभावमाह। भिनेत्यादि। भिन्नस्वभावानामसंकीर्णानां शावलेयादीनां प्रतिपत्तय इत्यध्याहारः । पृथगित्येककस्मिन् भेदे। एकस्य शब्दस्य नियोगे। संकेते कृते। पश्चाद् व्यवहारकाले। यथाचोदितानामित्यसंकरेण प्रतिपत्त्यर्थं चोदितानां विभागापरिज्ञानात् तस्मान्न तेषु शब्दनियोगः फलवान् । एवं हि स्वलक्षणेषु पृथक् पृथक्छब्दनियोगः फलवान्भवति। ___यदि तस्माच्छब्दादसंकरेण स्वलक्षणानि प्रतीयेरनिति (1) क्रियते च बहुष्वेकशब्दनियोगस्तस्माद् वस्तुभूतेन सामान्येन भाव्यमित्यभिप्रायः। ।
तस्यापीत्या चा र्यः। एकम्वस्तु सामान्यमस्तीत्येव कृत्वान्तरेणापि प्रयोजनं । लोकेन शब्दो निवेशनीय इत्येको विकल्पः। द्वितीयमाह। तद्वेत्यादि। तदिति