________________
२६६
प्रमाणवात्तिकस्ववृत्तिटीका (१।१४४) न भावे सर्वभावानां स्वस्वभावव्यवस्थितेः । यद् रूपं शावलेयस्य बाहुलेयस्य नास्ति तत् ॥१४१॥ अतत्कार्यपरावृत्तिद्वयोरपि च विद्यते । अर्थाभेदेन च विना शब्दाभेदो न युज्यते ॥१४२॥ तस्मात् तत्कार्यतापीष्टाऽतत्कार्यादेव भिन्नता । चक्षुरादौ यथारूपविज्ञानैकफले कचित् ॥१४३॥ अविशेषेण तत्कार्यचोदनासंभवे सति । सकृत् सर्वप्रतीत्यर्थ कश्चित् साङ्केतिकी श्रुतिम् ।।१४४॥
98b तेन' यद्यपि बुद्धिपरिवत्तिनो भावाः सामान्यरूपास्तथापि तेष्वेव बहुषु बहिरिव
परिस्फरत्स्वेकः शब्दो निवेश्यते (1) न तु तेषु सर्वेष भिन्नरूपे सामान्ये स्थिते प्रतिव्यक्ति भिन्नव श्रतिः कस्मान्न संकेतितेत्याह। गौरवेत्यादि। गौरवाद (सामान्यं)' अशक्तेर्वैफल्याच्च भेदाख्याया भिन्नायाः श्रतेः । यद्वा भेदाख्याया भेदकथनस्य। एतच्च वत्तौ स्पष्टयिष्यामः । न भावे वस्तुभाते सामान्ये समा श्रति कृता। किं कारणं सर्वभावानां स्वभावस्य स्वरूपस्य व्यवस्थितेरसांकर्यात् ।
यद्रपं शावलेयस्येत्यादिना व्यवस्थितस्वभावत्वमाह। ततो नाव्यतिरिक्तं सामान्यं। व्यतिरिक्तमपि स्वस्मिन् स्वभावेवस्थितं तदपि कथं व्यक्तीनां समानं रूपं। न ह्यन्येनान्ये समाना इत्यक्तं । सास्नाद्याकारप्रत्ययस्य हेतवोऽजत्कार्यास्तेभ्यो व्यावृत्तिावृत्तः स्वभावः । द्वयोरिति शावलेयबाहुलेययोः। तस्मादतत्कार्यव्यावृत्तिभिन्नानामप्यविरुद्धेति। सैवार्थाभेदः शब्दाभेदस्य कारणमेष्टव्यं यतोर्यादभेदेन विना शब्दाभेदो न युज्यते। कथन्तर्हि बहुष्वेका श्रुतिराभेद एव प्रवृत्तेरित्यत आह । तस्मादित्यादि। यापीयन्तत्कार्यतैककार्यतेष्टा यस्याः परिचोदनार्थम्बहुष्वेका श्रुतिरित्युक्तं साप्यतत्कार्यादेव भिन्नता द्रष्टव्या। बहूनामतत्कायादेव भिन्नः स्वभावो द्रष्टव्यः । . न तु तत्कार्यता नाम सामान्यमस्ति। विनापि च सामान्ये यथा विलक्षणेष्वेकशब्दनिवेशो न विरुद्धस्तथा दर्शयन्नाह। चक्ष रादावित्यादि। रूपविज्ञानमेकं फलं यस्य चक्षुरादेरितिविग्रहः । क्वचिदिति यस्मिन् काले विज्ञानजननसमर्थास्ते चोदयितु मिष्टाः । अथवा क्वचित् काले सांकेतिकी श्रुतिं कुर्यादिति सम्बन्धः। किमर्थं कुर्यादित्याह। अविशेषेण सामान्येन । तत्कार्यस्य चक्षुर्विज्ञानैककार्यस्य कारणकलापस्य परेभ्यः प्रकाशनसम्भवे सति । यदा तु चक्षुरादीनामसाधारण
1 In the margin.