________________
४. सामान्यचिन्ता
सर्वत्र आवाद् व्यावृत्तेर्नैते दोषाः प्रसंगिनः ॥१३८॥
यथा हि एकः तस्माद् भिन्नः तथाऽन्योपीति भेदस्यासामान्यदोषो नास्ति । परिशिष्टाभावः प्रागेव उक्तः ।
श्रपि च ।
एककार्येषु भेदेषु तत्कार्यपरिचोदने ॥१३९॥ गौरवाशक्तिवैफल्याद् भेदाख्यायाः समा श्रुतिः । कृता बृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना ॥ १४० ॥
२६५
यथोक्तो दोष इति चेन्न । उक्तोत्तरत्वात् । विशेषणविशिष्टस्यापि द्रव्यस्याभिधाने वस्तुसामर्थ्यादेकस्मादपि शब्दादखिलगतेः शब्दान्तरस्य तत्राप्रवृत्तिः प्रवृत्तौ चापर्यायतेति। तदेवं वस्तुशब्दार्थवादिनो न कथंचित्सामानाधिकरण्यादिसम्भवः ।
सामान्यमपि तेषां न सम्भवतीत्युक्तं । तथा हि यदा तावत्स्वलक्षणादव्यतिरिरिक्तं सामान्य तदा स्वलक्षणवद् व्यक्त्यन्तराननुगमादसामान्यं (1) व्यतिरेकेपि कथमन्यस्य समान्यमतिप्रसङ्गादित्यादि प्रागुक्तं ।
व्यावृत्तिवादिनस्त्वयमदोष इत्याह । सर्वत्रेत्यादि । एते दोषा इति सामान्यसामानाधिकरण्याभावादयः । यथा हीत्यादि । एको गोभेदः शावलेयस्तस्मादगोस्वभावाद् भिन्नस्तथान्योपि बाहुलेयादिः ( 1 ) अतो विजातीयव्यावृत्तः स्वभावः सर्वत्र तुल्य इति भेदस्य विजातीयभिन्नस्य स्वभावस्य विकल्पबुद्ध्या सर्वत्र स्वाकाराभेदेनाध्यस्तस्यासामान्यदोषो नास्ति । परिशिष्टाभाव इति सामानाधिकरण्याद्यभावः प्रागेवोक्तः । ‘विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्त्तत" (१।१३३ ) इत्यादिना । एवन्तावद् विजातीयव्यावृत्तं स्वभावं सर्वत्र बुद्धया स्वाकाराभेदेनाध्यस्तमेकं शब्दाभिधेयं प्रतिपाद्याधुनाऽभिन्नाकारमन्तरेणाप्येककार्येषु भावेष्वेकः शब्दो नियुज्यत इत्याह । अपि चेत्यादि । तत्कार्यपरिचोदने एककार्यतापरिचोदनार्थं । यद्वैककार्याणां परिचोदनार्थं । एककार्येषु भेदेष्वेकस्य भावरहितेष्वपि समा एका. श्रुतिः । कृता संकेतिता । वृद्धैर्व्यवहारज्ञैः । तत्कार्याणाम्भेदानामतत्कार्येभ्यो या यावृत्तिस्तत्रिबन्धना विजातीयव्यावृत्ततयैककार्येष्वेका श्रुतिर्निबध्यत इत्यर्थः । (183511)
ननु यदि न सामान्ये शब्दनिवेशः स्वलक्षणे तर्हि शब्दनिवेशः स्यादन्यस्याभावात् । न च स्वलक्षणं शब्दवाच्यं ।
नैतदस्ति । यतः प्रतिपादकस्तावत् त्रिकालस्थान् भावान् एककार्यात् संकेतकरणाभिप्रायेण विषयीकृत्य तेष्वेव संकेतं करोति व्यवहारकाले परिचोदनार्थं ।
३४
स्व/न