________________
२६४
प्रमाणवार्तिकस्ववृत्तिटीका (१।१३७ )
न सामान्यस्य वृत्तिर्विशेष इति चेत् । न । भेदाभावात् । तद्धि एकरूपं सामान्यं वा भवेद् विशेषो वा । न ह्यसति रूपभेदेऽयं प्रविभागो युक्तः, सति वा 459a श्रव्यतिरेको ? न स्यादित्युक्तम् । तद् श्रयमविभागो निरन्वयोऽपि न सान्वयः । योपि सामान्यं भिन्नमेवाह तत्रापि -- अभेदव्यवहाराश्च भेदे' स्युरनिबन्धनाः ।
यथास्वं शब्दानां भिन्नार्थाभिधाने कथं एकार्थबुद्ध्याश्रयाः स्युः ! प्रर्थान्तराभिधायिनश्च निराकांक्षत्वात् श्राकांक्षाभावे कथं विशेषणविशेष्य 2 भावः ?
स्यैव समर्थनं । तद्धि वस्त्वेकरूपमेकात्मकं सत् । सामान्यस्वा भवेद् विशेषो वेति । सामान्याद् विशेषस्याव्यतिरेकात् सामान्यमेव स्यात् । विशेष एव वा विशेषादव्यतिरेकात् सामान्यस्य । न त्वेकं द्विरूपं । यतो न ह्यसति रूपभेदेऽयं प्रविभाग इति सामान्यं विशेष इति च । सति वा प्रविभागे सामान्यविशेषयोरव्यतिरेको न स्यादित्युक्तं प्राक् । तदिति तस्मादयम्वस्त्वात्मा । अविभाग इत्यनंशः ।
यदि सामान्यमेव तदान्वियाद् व्यक्त्यन्तरङ्गच्छेत् । अथ विशेषात्मक एव । तदा न वान्वियात् । एकस्य तु विरुद्धधर्मद्वयासम्भव इति यावत् । तदेवाह ( 1 ) न पुनरित्यादि ।
योपीति वै शेषिकादिः । द्रव्याद् भिनमेव सामान्यं शब्दवाच्यमाह। व्यक्तेः सामान्या'नाम्भेदेऽभ्युपगम्यमानेऽभेदव्यवहाराः सामानाधिकरण्यादिव्यवहाराः स्युरनिबन्धनाः । यथास्वमिति । वीप्सायामव्ययीभावः । तथा हि नीलोत्पलादिशब्दा यथास्वन्नीलोत्पलादिम्परस्परभिन्नं सामान्यमाहुः । यदापि नीलशब्दो नीलगुणाभि98a धायष्यते तदापि भिन्नार्थाभिधानमस्त्येव । एको धर्मी अर्थो विषयो यस्या बुद्धेस्सा (1) एकार्था चासौ बुद्धिश्चेति कर्मधारयः पुम्वद्भावश्च । अस्या आश्रयाः कारणं कथं स्युः । ततश्च सामानाधिकरण्यं न स्यादिति भावः ।
यदि नीलोत्पलादिशब्दा विशेषणद्वययुक्तैकधर्मविषयां बुद्धि जनयेयुः । तदैकार्थप्रतिपादनेन स्यात् सामानाधिकरण्यन्तच्च नास्ति । व्यक्तेरर्थान्तरं सामान्यन्तदभिधायिनश्चानाक्षेपकास्तद्गतानां भेदानान्तदपरित्यागेन वृत्तिराक्षेपः न तथा । कस्मात् (1) निराकांक्षत्वात् । यदा वृक्षशब्दो वृक्षत्वमेवाभिधत्ते । तदा तस्य निर्विशेषणत्वात् तावतैवासौ निराकांक्ष इति कथन्धवादीनाक्षिपेत् । अनाक्षिप्ताश्च कथं वृक्षशब्दार्थस्य भेदा धवादयोऽतद्भेदत्वाच्च कथं वृक्षः शिशपेति विशेषणविशेष्यभावः । तदाह । कथमित्यादि । सामान्यविशिष्टस्य द्रव्यस्याभिधानान्न