________________
४. सामान्यचिन्ता
२६३
एवं चेत्। एकत्वाद् वस्तुरूपस्य भिन्नरूपा मतिः कुतः ॥१३७॥ अन्वयव्यतिरेको वा नैकस्यैकार्थगोचरौ।
तदेकमनशं वस्तु चेत् कथं बुद्ध्याकार भेदैविषयोक्रियते। भिन्नाकारत्वं भेदाश्रयादेव। तदपि प्रभेदात् सामान्यस्य। तदात्मनोऽपि तदेकयोगक्षेमत्वात्। तद् अयं न अन्योन्यार्थपरिहारेण एकविषययोक्त्यसम्भवात्।
न च सामानाधिकरण्यादि स्यात्। न चैकस्मिन्नेव वस्त्वात्मनि वृत्यवृत्ती युक्ते व्याघातात्। न च अन्यत्र प्रवृत्तिरपि सामान्यं स्यात् ।
भिन्नं भिन्नम्वा स्यात् । तत्राद्ये पक्षे। एकत्वाद् वस्तुरूपस्य भिन्नरूपा सामान्यविशेषाकारा भिन्ना मतिः कुतः । (११३६॥)
स्वलक्षणाच्च सामान्यस्याव्यतिरेके । शावलेयात्मको' भेदो यतो बाहुले- 97b यात्मकाद् भेदाद् व्यावर्त्तते। बाहुलेये शावलेयात्मकं गोत्वमन्वेतीत्येकस्यार्थस्यैकाधिकरणावन्वयव्यतिरेको प्राप्नुतः। तच्चायुक्तमित्याह। अन्वयव्यतिरेकावित्यादि। एकोर्थो गोचरो विषयो ययोरन्वयव्यतिरेकयोस्तौ तथोक्तौ।
तदेकमित्यादिना व्याचष्टे। एकत्वादेवानंशमेकस्यांशाभावात्। आक्रियत इत्याकारो बुद्धिप्रति भासः । तस्य भेदस्तदाश्रयाद् भेदस्य । वस्तुनानात्वस्य । यदि भिन्नाकाराभिर्बुद्धिभिर्गुह्येत भिन्नं स्यात्। न चैवन्तस्य चाभावाद् वस्तुनः । सामान्यविशेषोभयात्मकत्वाद् वस्तुन एकस्यापि भिन्नाकारबुद्धिग्राह्यत्वमिति चेदाह। तदात्मनोपीत्यादि। स्वलक्षणात्मनस्तदेकयोगक्षेमत्वात् । स्वलक्षणेनैकयोगक्षेमत्वात् तद्वदेवाभिन्नत्वं। तदिति तस्मादयं सामानाधिकरण्यादिन स्यादिति सम्बन्धः। किं कारणम् (1) अन्योन्यार्थपरिहारेण परस्परार्थपरिहारेण भिन्नप्रवृत्तिनिमित्तत्वेनेति यावत्। शब्दयोरेकविषययोरेकद्रव्याधारयोवृत्त्यसम्भवात् । ___ अन्वयेत्यादि श्लोकभागं न चेत्यादिना व्याचष्टे। यदैक एव वस्त्वात्मा स्वलक्षणं सामान्यं च तदा शावलेयस्वलक्षणस्य गोत्वसामान्यात्मकत्वात्। तत्रैव बाहुलेये वृत्तिः पुनः स्वलक्षणात्मकत्वात् तत्रैवावृत्तिस्तस्मिन् काले प्रयुक्ता। सा चायुक्ता । व्याघातात्। प्रमाणबाधितत्वात्। स्वलक्षणादभिन्नत्वान्नैव सामान्यमन्यत्र वर्तते। ततो नैकस्यैकत्र वृत्त्यवृत्ती इति चेदाह । न चेत्यादि । सामान्यस्येत्यादि। ततो नैकस्य वृत्त्यवृत्ती इत्यभिप्रायः।
नेत्या चार्यः सामान्यविशेषयोः सां ख्या दिदर्शनेन भेदाभावात्। तदित्याद्य