________________
२६२ प्रमाणवात्तिकस्ववृत्तिटीका (१।१३६) (स्यात् सत्त्यं स हि तत्रेति) नैकवस्त्वभिधायिनि ॥१३५॥ बुद्धावभासमानस्य दृश्य स्याभावनिश्चयात् ।
इति संग्रहश्लोकाः। तेनान्यापोहविषयाः शब्दाः सामान्यगोचराः ॥१३६॥ शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात् ।
यदि हि वस्त्वेव विधिरूपेण शब्दविकल्पैः विषयोक्रियेत, सोयमिह सर्वार्थानां सर्वेणाकारेण प्रतीतिप्रसंगः। न च सामान्यादि चिन्तयित्वा न्यायशास्त्रप्रणेत्राऽन्यापोह विषयावेतौ निर्दिष्टौ।
न पुनरनीलानुत्पलव्युदा सौ। तस्मात् समानाधिकरणार्थो नास्ती"ति' निरस्तं। विधीयमानस्य शब्दार्थस्याभ्युपगमात् । (११३३॥) __किं च पुनः (1) शब्दस्य स्वार्थाभिधानद्वारेण समारोपव्यवच्छेदकरणेभ्युपगम्यमाने। यद्वा व्यवच्छेदकरणे व्यवच्छिन्नस्वभावविषयीकरणे। लेशतो वस्तुधर्मस्य वस्तुस्वभावस्य विजातीयव्यावृत्तस्य संस्पर्शः स्यात् प्राप्तिलक्षणः (1) किं कारणं (1) सत्यमिति विद्यमानः स ह्यध्यवसीयमानः व्यवच्छिन्नः स्वभावः । तत्र वस्तुनीति कृत्वा नैकवस्त्वभिधायिनि शब्देभ्युपगम्यमाने वस्तुधर्मस्य संस्पर्शः सामान्यस्यैव वस्तुनोऽभावात्। - कथमिति चेत् । बुद्धावित्यादि। उपलब्धिलक्षणप्राप्तस्यानुपलम्भादसत्त्वमिति यावत्। यत एवम्वस्तुनि शब्दार्थे दोषस्तेन कारणेनान्यापोहविषया विकल्पबद्धिप्रतिभासविषयाः शब्दा बद्धयश्च प्रोक्ता आचार्य दिइना गेन। किम्भता बुद्धयः सामान्यगोचरा विकल्पिका इत्यर्थः । बुद्धीनामेवैतद् विशेषणं न तु शब्दानान्तेषां सामान्यविषयव्यभिचारात्। किङकारणं। वस्तुन्येषां शब्दानां विकल्पानां च सम्भवात्।
यदि हीत्यादिना व्याचष्टे। वस्त्वेव यदि विषयीक्रियेत गृह्येत न तु विधिरूपे. णाध्यवसीयेत। सोयमित्यजन्तरोक्तः सर्वार्थानां सर्वेणाकारेण वस्तुसामर्थ्यात् प्रतीतिप्रसंगः । आदिशब्दाद् अविशेषणविशेष्यभावप्रमाणान्तराप्रवृत्त्यादिपरिग्रहः । प्रणेता आचार्य दि ङ ना गः। एताविति बुद्धिशब्दौ । अन्योपोह्यतेनेनेति विकल्पाकार उच्यते तद्विषयौ। तथा भिन्नाकाराभिर्बुद्धिभिरेकम्वस्तु यदि विषयीक्रियेत। तथैव शब्देन चाभिधीयेत, तदा भिन्नफलयोः शब्दयोरेकत्र द्रव्ये वृत्तत्वात् स्यात् सामानाधिकरण्यमेतत्तु न सम्भवति । तथा हि तच्छब्दवाच्यं सामान्यं स्वलक्षणाद
1 Nyāyavārtika.