________________
४. सामान्यचिन्ता
२६१
458b
विच्छेदं सूचयन्नेकमप्रतिक्षिप्य' वर्त्तते ॥१३३॥ यदान्यं तेन स व्याप्त एकत्वेन च भासते। सामानाधिकरण्यं स्यात् तदा बुद्ध्यनुरोधतः ।।१३४॥ वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः ।
घटपटादिशब्दवन्नानाविषयत्वात् ।
अथ मतं (1) नीलशब्दो नीलगुणविशिष्टन्द्रव्यमाह। उत्पलशब्दोप्युत्पलजातिविशिष्टन्तदेव द्रव्यमाह। अतो विशेषणयोर्भेदान्नानाफल: शब्दो विशेष्याभेदादेकाधार इति । ___ तदप्यसत्। यतो नीलगुणेन विशिष्टद्रव्यन्नीलशब्देनाभिधीयमानं सर्वात्मनाभिधीयते निरंशत्वात्। ततः कोपरो द्रव्यस्योत्पलजातिविशिष्ट आत्मानभिहितोस्ति यदुत्पलशब्देनाभिधीयेतेोत (1) तथैव पर्यायता स्यादथ विशेषणभेदाद् विशेष्यद्रव्यस्य भेदस्तदाप्येकाधारता न स्यात् । अपोहवादिनस्त्वयमदोष इत्याह । यथावणित इत्यादि। बुद्धिप्रतिभास आश्रयो यस्य शब्दार्थस्य स तथोक्तः । ____ यथा च न दोषस्तथा प्रतिपादयन्नाह। विच्छेदमित्यादि। एको नीलशब्द एक व्यवच्छेदमनीलव्यवच्छिन्नं नीलस्वभावं सूचयन्नन्यमनुत्पलव्यवच्छिन्नमुत्पलस्वभावमप्रतिक्षिप्य वर्तते न निराकारोतीत्यर्थः । (११३२॥)
स इत्यनुत्पलव्यवच्छिन्नः स्वभावः । तेन नीलशब्देन व्याप्त आक्रान्तः आक्षिप्तः सन्नुत्पलशब्दप्रयोगे बुद्धावेकत्वेन प्रतिभासते। एकस्यैव धर्मिणः व्यवच्छेदद्वयायातनीलोत्पलधर्मद्वययुक्तस्य विकल्पबुद्धौ प्रतिभासनात्। यदा चैवन्तदा सामानाधिकरण्यं स्याद् बुद्धयनुरोधतः। ___ एतदुक्तम्भवति (1) नीलशब्दप्रयोगाद् बुद्धिप्रतिभासी धर्मी नीलरूप एव 97a प्रतिभासते। तत्रार्थादनीलं व्यावर्त्यते न त्वनुत्पलव्यवच्छिन्नः स्वभाव उत्पलशब्दप्रयोगादप्युत्पलरूपतया प्रतीयमानोनुत्पलं व्यावर्त्यते न त्वनीलव्यावृत्तः स्वभावः । शब्दद्वयप्रयोगे तु नीलोत्पलधर्मद्वययुक्तकर्मिप्रतिभासिनी विकल्पबुद्धिरुत्पद्यते ततो नानाफल: शब्द एकाधारो भवतीति भवेद् बु (द्)ध्यनुरोधेन सामानाधिकरण्यमिति।
तेन यदु द्यो त क रे णोच्यते (1) “यस्य चान्यापोहः शब्दार्थस्तेनानीलानुत्पलव्युदासौ कथं समानाधिकरणाविति वक्तव्यं । यस्य पुनर्विधीयमानः शब्दार्थस्य जातिगुणविशिष्टं नीलोत्पलशब्दाभ्यां द्रव्यमभिधीयते जातिगुणौ च द्रव्ये वर्तते।