________________
२६० . प्रमाणवात्तिकस्ववृत्तिटीका (१।१३२) भूतेन नानकधर्मभेदाभेदाः। प्रतिभासविप्लवानुसारीति तस्य तत्प्रतिबन्धभूते ऽपितथा तदव्यभिचारः। ततो वितथात् प्रवृत्तस्यान्ते तथाभूतएव वस्तुनि ज्ञानसंवावात्। न पुनभिन्नाकारग्राहिणां ज्ञानं शब्दानामेकवस्तुविषयत्वात्। नानाफलः शब्द एकाधारो नास्ति .व्याघातात्। यथावणिते बुद्धिप्रतिभासाश्रये न दोषः।
विच्छिन्नवस्तुग्राहका इव भवन्तीत्यर्थः। बुद्धेविप्लवश्च बुद्ध्याकारस्य बहीरूपतया ग्रहः। तद्विषयत्वाच्छब्दानां। बुद्धिविप्लवेपि वाच्यवस्तुसामर्थ्यांदखिले गतिः । किन्नेति चेदाह। तत्र चेत्यादि । सत्र बुद्धिविप्लवेऽवस्तुनि बस्तुसामर्थ्याभावात् ।
यद्यपि बुद्धयाकारोज्ञानस्वलक्षणत्वाद्वस्तु। तथाप्यसौ शब्दैविकल्पैर्वा बाह्याभिन्नतयाध्यस्तोऽवस्त्वेव। तेन शब्दो विकल्पो वा न स्वलक्षणविषयो यथावदेकस्यापि बाह्यस्य ज्ञानाकारस्य वाऽग्रहणादिति। __ यदि बुद्धिविप्लवविषया एव सर्वशब्दाः कथं कृतकानित्यादिशब्दानान्तथाभूते वस्तुन्यव्यभिचार इत्यत आह। तथाभूतेत्यादि। ततस्ततोऽकृतकनित्यादेभिन्नस्यार्थस्यानुभवद्वारेणेत्यर्थः । अयं व्यवहार इति सम्बन्धः । किम्भूतः (1) नानकेत्यादि। नाना एकश्च नानकं । तच्च वर्मश्चेति कर्मधारयः । ततो भेदाभेदशब्दाभ्यान्त्रिपदो
द्वन्द्वः। नानकधर्मभेदाभेदा एव बुद्धौ प्रतिभासन्त इति प्रतिभासास्त एव विप्लवो 96b भ्रान्तत्वात्। तदनुसारी तेनाकारेण प्रवृत्तः । इति हेतोस्तस्य व्यवहारस्य तत्प्रतिबन्धे'
तमिस्तथाभूते स्वलक्षणे पारम्पर्येणोत्पत्तिप्रतिबन्धे सति तदव्यभिचारः । वस्त्वव्यभिचारः। यथा हि कृतकाद्याकाराः शब्दा विप्लवास्तथावस्तूनामपि कृतकादिरूपेण परमार्थतोवस्थानमित्यनेनाकारेणाव्यभिचारो द्रष्टव्यः।
एतदेवाह। ततोपीत्यादि। ततो बुद्धिविप्लवविषयाच्छब्दाद् व्यवहारात् परार्थानुमानलक्षणाद् वितथादिति भ्रान्तात्। प्रवृत्तस्यान्ते प्रवृत्तिपरिसमाप्तौ तथाभूत एव कृतकादिरूप एव वस्तुनि नत्वकृतकादिरूपे। अनेनाव्यभिचारस्वरूपमुक्तं । ज्ञानसम्वादात् स्वलक्षणग्राहिज्ञानोत्पत्तेः शब्दस्य वा ज्ञानस्य सम्वादात् ।।
__ अस्मिन्नेवान्यापोहे शब्दार्थे सामानाधिकरण्यं सिध्यति न तु वस्तुनीत्याह । न पूनभिन्नेत्यादि । भिन्ना आकारा जातिगणादयः शब्दप्रवत्तिनिमित्तभताः । तद्ग्राहिणां ज्ञानशब्दानामेकवस्तुविषयत्वात् । शब्द एकाधार इति सम्बन्धः । यदि हि भिन्नाकारं ज्ञानमेकवस्तुविषयम्प्रवर्तेत ततस्तदनुसारेण शब्दोपि तथा स्यात्। तथा च नानाफल: शब्द एकाधार इति भवेत्सामानाधिकरण्यं तच्च नास्ति व्याघातात्। तथा हि नीलोत्पलशब्दयोरेकं वा वस्तुवाच्यं स्यादनेकम्वा। आद्ये पक्षे एकेनैव शब्देन निरंशस्य वस्तुनः सर्वात्मनाभिधानात्। द्वितीयस्य शब्दस्याप्रवृत्तिः स्यात् प्रवृत्ती वा पर्यायतेति न नानाफलत्वं। द्वितीये पक्ष एकाधारता नास्ति।