________________
४. सामान्यचिन्ता
२५६
कुर्वनानाफलः शब्द एकाधारो भवत्यतः।
यथा बाह्यान्तर्भेदसंसृष्टया बुद्धया स्वस्यैव अर्थ क्रियायोग्यमध्यवसाय शब्दार्थ उपयुज्यतं इति पूर्वोक्तवत्। तैस्तैभ्रान्तिकारणैः संसृष्टरूप इव प्रतिभासमाने यथासंकेत व्यवच्छेदार्थं तत्रैव ते व्याप्रियन्ते। न ोकसाध्यमपि व्यवच्छेदमन्यः करोति संकेतप्रतिनियमात्। नैव विच्छिन्नं किञ्चिद् वस्तु आक्षिप्यते। यस्याभिधानात् वस्तुबलेन सर्वथा गतिः स्यात् शब्दानां। बुद्धिविषयत्वात्।
तत्र च अवस्तुनि वस्तुसामर्थ्याभावात्। तथाभूतेनायं व्यवहारः सम्यग्
वस्तुसामर्थ्याद् वस्तुवशात् । यतश्च शब्द: स्वाभिधानद्वारेण व्यवच्छेदं करोति ततः कारणात् तं तं व्यवच्छेदं कुर्वन्नानाफल: शब्दो भवत्येकाधारश्च । कथं । अर्थक्रियायोग्यमध्यवसाय । अनर्थक्रियाकारिणापि स्वाभासमर्थक्रियाकारित्वेन स्वलक्षणरूपत्त्वेनाध्यस्येत्यर्थः। तत्रैवेति बुद्धिप्रतिभासे बाह्य तयाध्यस्ते। किंभूते। 96a तैस्तैर्धान्तिकारणैः संसृष्टरूप इव भाति । (३१३१॥)
सदृशापरोत्पत्त्यादिभिर्धान्तिहेतुभिनित्याद्याकारेण संसृष्टरूप इव प्रतिभासमाने । तेऽनित्यादिशब्दाः यथासंकेतं यस्य यस्य समारोपस्य व्यवच्छेदार्थं । स्वप्रतिभासे संकेतः कुतः। तस्य तस्य प्रतियोगिनो व्यवच्छेदाय व्याप्रियन्ते । संकेतानुरूपमेव प्रतिपादयन्नाह। न चेत्यादि। ह्यर्थे चशब्दः। यतो यथासंकेतं व्यापारस्ततो न होकशब्दसाध्यं व्यवच्छेदमन्यः शब्द: करोति। किङकारणं (1) संकेतप्रतिनियमात्। एकैकव्यवच्छेदार्थम्बुद्धयाकारोऽविभक्तबाह्यरूपे शब्दनिवेशनात् । व्यवहारकालेपि स्वार्थाभिधानद्वारेण तन्तमेव व्यवच्छेदं प्रत्याययतीत्यर्थः। शब्दग्रहणमपलक्षणमेवं लिङ्गमपीति द्रष्टव्यं।
नन्वध्यवसितबाह्यरूपत्वाच्छब्दार्थस्य ततश्च शब्देनन्यलक्षणस्य सर्वात्मना विषयीकरणात् कथं न शब्दान्तराणाम्वैयर्थ्यमित्याह न चेत्यादि। अवधारणश्च शब्दः । नैव विच्छिन्नं ज्ञानाशाद् भिन्नं किञ्चिद् वस्तु । स्वलक्षणं स्वलक्षणाद् व्यतिरिक्तं सामान्यलक्षणमन्यनिवृत्तिलक्षणं वाक्षिप्यते गृह्यते शब्देन लिङ्गेन वा। यस्याभिधानाद् वस्तुबलेनेति वस्तुग्रहे निरंशत्वाद् वस्तुनः सर्वथा गतिः स्यात् । धर्माणान्ततो व्यतिरेकात्। व्यतिरेकेप्युपाधीनां नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रह (११५४) इत्यादिना सर्वथाग्रहणस्योक्तत्वात् । कस्माच्छब्दैविच्छिन्नम्वस्तुनाक्षिप्यत इत्यत आह । शब्दानामित्यादि।
एतदुक्तम्भवति। यतो बुद्धयाकारमबाह्यम्बाह्यमध्यवस्यन्ति शब्दास्ततो