________________
२५८ . प्रमाणवात्तिकस्ववृत्तिटीका (१।१३२)
परमार्थः। कथतहि अभिन्नस्य वस्तुनः शब्देन चोदने तस्यवान्यतो भेदात्, 458a अनंशस्य एकस्य भेदस्य' चोदने सर्वभेदगतेः, तत्र कथं शब्दप्रमाणान्तरणि व्यर्थानि न स्युरिति चेत्। नैष दोषः। यस्मात्--
एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनिः ॥१३१॥ लिग वा तत्र विच्छिन्नं वाहयं वस्तु न किञ्चन । यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः ॥१३२।।
दनुभवद्वारेण वृक्षोऽयं नावृक्ष इत्येवं निश्चय उत्पद्यते। तेनान्यनिवृत्तिः प्रतिषेध95b विकल्पेन कल्पिता। यथासंकेतं च वृक्षादौ शब्द: प्रवर्त्तमानोर्थादन्यनिवृत्तिमाक्षि
ति। अन्यनिवृत्तिविकल्पमाक्षिपतीत्यर्थः। तेनान्यनिवृत्त्या विशिष्टो। वस्तुभागो. गम्यत इत्युच्यत इति। ___ यदि व्यावृत्तयः सामान्यभूता बहिर्वस्तुत्वेन नेष्यन्ते। नापि परपरिकल्पितं सामान्यमेवं सति बाह्यम्वस्त्वेव वाच्यमापतितं । तत्र च दोष इत्याह । कथन्तीति । अभिन्नस्य निरंशस्य वस्तुनः शब्देन चोदने उपलक्षणं चैतत् लिंगेन प्रतिपादने। तस्यवाभिन्नस्य वस्तुन एकस्मार्द भिन्नस्य पुनरन्यतोपि भेदात्। तथा हि येन स्वभावेन न शब्दोऽकृतकाद् भिन्नस्तेनैव मूर्तानित्यत्वाच्च । तस्यानंशत्वात् । अनंशस्य .च वस्तुनः कृतकशब्देनैकस्यांकृतकाद् भेदस्य भिन्नस्य स्वभावस्य चोदने । तथा लिंगेन प्रतिपादने सर्वभेदगतेस्सर्वेभ्यो भिन्नस्य स्वभावस्य प्रतिपत्तेः। तत्रानशे वस्तुनि कथं शब्दप्रमाणान्तराणि व्यर्थानि न स्युः। एकेन शब्देन चोदने शब्दान्तराणां वैयर्थ्यं स्यात्। एकेन लिङ्गेन प्रतिपादने प्रमाणान्तराणां वैयर्थ्यं स्यात् ।
यस्मादित्यादिना परिहरति । तस्माद् यो येन धर्मेण विशेषः संप्रतीयत (१।४४) इत्यादिना प्रागेवेदं चोद्यम्परिहृतम धिकविधानार्थन्तु पुनरुपन्यासः। अर्थेष्वाकारान्तरसमारोपोर्थश्लेषः (1) स च प्रतिपत्तिभेदेनानेकः । तत्रेति बुद्धिप्रतिभासिनि धर्मिणि बाह्यभिन्नतयाऽख्येयास्ते। बाह्यतयाध्यस्तस्यैव बुद्धयाकारस्य शब्दवाच्यत्वात् । न पुनर्बाह्यम्बुद्धयाकारो वा केवल: शब्दवाच्यः स्वलक्षणत्वात् । तत्र धर्मिणि विधिरूपतया स्वार्थप्रतिपत्तिद्वारेणैकार्थ-श्लेषविच्छेदेऽपनयन एको ध्वनियाप्रियते। (११३०॥)
लिङ्गं चैकार्थश्लेषविच्छेदे व्याप्रियते। तत्र स्वार्थाभिधानद्वारेण समारोपव्यवच्छेदे शब्दप्रमाणान्तराणां साफल्यमिति यावत्। न पुनर्ज्ञानाद् व्यतिरिक्तम्बाह्यम्वस्तु स्वलक्षणं (।) स्वलक्षणाद् वा व्यतिरिक्तम्बाह्यम्वस्तु सामान्यलक्षणम्वाच्यं किञ्वनास्ति । यस्य वस्तुनोऽभिधानतोऽखिले वस्तुस्व भावे गतिर्भवेत् ।