________________
४. सामान्यचिन्ता
२५७
न हि भेदोपाधिवदेव भेदः अयमत इति विशेषनिर्देशात्। ततश्चोपाध्यभावे भेदस्यैवाभावः स्यात्। ततो नान्यत्त्वम्। नाप्यन्यथाऽभावात् भावे
मप्यघटापेक्षया यो भेदस्तदुपाधित्वान्न पलाशस्य भेदस्तद्वत् । स्वतन्त्रत्वादित्यभिप्रायः ।
नन यदि नाम भेदोपाधिर्भेदस्तथापि किमिति पलाशस्य भेदो न भवतीत्यत आह । न हीत्यादि। अयमत इति विशेषनिर्देशात् । अयमवृक्षाद् भेदः । अत इत्यवृक्षात् । अस्येत्येतदपेक्षणीयं । अस्य' पलाशस्यायं भेदोऽस्मादवृक्षादित्येवं विशेषनिर्देशात् पारतन्त्र्येण निर्देशात् पलाशस्य सम्बन्धी भेदो धर्मः सिध्यति। पारतन्त्र्येण च निर्देशो भेदस्याभेदे सति सिध्यति भेदान्तरप्रतिक्षेपेण । न त्वर्थान्तरत्वे भेदस्य। अर्थान्तरत्वे हि भेदोपाधित्वाद् घटवन्न पलाशस्य भेदः स्यात्। ततश्चास्मादस्य भेद इति विशेषनिर्देशो न स्यात्। तदेवं व्यतिरेकपक्षेऽवृक्षाद् भेदस्यापि पलाशाद् यो भेदः सोपि रूपवानिति तस्यापि स्वाश्रयाद् भेदेन भवितव्यं । तथा च सर्वभेदानां भिन्नस्वभावतया भेदोपाधित्वेन स्वयन्न रूपभेदतेति न कश्चिद् भेदः स्यात्।
एतदेवाह । ततश्चेत्यादि। उपाध्यभाव इति व्यावृत्तिलक्षणस्य धर्मभूतस्योपाधेरभावे सर्वस्य स्वभावान्तरत्वेन धर्मित्वाद् भेदस्य वाभावः स्यात् तस्य धर्मिरूपत्वात् ।
योपि मन्यते (1) यदि रूपवती व्यावृत्तिः स्यात् स्यात् तत्त्वान्यत्वपक्षभावी दोषो यावता नीरूपा सास्ति तया च भावा विशिष्टा गृह्यन्त इति । तदयुक्तं।
"तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्त्तनं ।
न तत्र गम्यते कश्चिद्विशिष्ट: केनचित्पर (:"॥ प्र. वा. १११२८) इति ग्रन्थविरोधात् । नीरूपस्य चास्तित्वविरोधाच्छशविषाणवत्। नीरूपत्वादेव च न तस्याः प्रत्यक्षं ग्राहकं नाप्यनुमानं । सम्बन्धाभावात्।
नापि नियतरूपान्यथानुपपत्त्या तत्कल्पना सम्बन्धाभावादेव। स्वहेतुभ्य एव च नियतरूपाणामुत्पन्नत्वादिति “सर्वभावा स्वभावेन व्यावृत्तिभागिन' (१।४२) इत्यत्रान्तरेऽभिहितत्वात्।
नापि च साप्रतिपन्ना विशेषणम्भवितुमर्हति । न हि दण्डाप्रतीतौ दण्डीति प्रतीतिर्भवति । नापि सा क्वचिदाश्रिता नीरूपत्वात् । न चासम्बद्धम्विशेषणम्भवति । नाप्यन्यनिवृत्तिग्रहणपुरस्सरं वृक्षादिषु वृक्षशब्द: प्रवर्ततेऽप्रतीतिरित्युक्तत्वात् । निवृत्तेर्नीरूपतयाऽप्रतिपन्नत्वेन संकेतस्याप्रवृत्तेश्च। कथं शब्दविषयत्वन्तस्मा
३३