________________
२५६
प्रमाणवार्त्तिकस्ववृत्तिटीका ( १|१३० )
न तदेव भेदस्य रूपं चेत् । श्रन्यदेव रूपं स्यात् । ततश्च भावस्तस्माद् व्यावर्त्तेत । ततः तस्य भेदो न स्यात् । यो यद्भेदाद् व्यावर्त्तते तत् तदेव भवतीति सोस्य भेद इति च न स्यात् । न ह्यन्योन्यस्य भेदो भवति सम्बन्धी । सति वा सम्बन्धित्वे कार्यकारणभावात् तज्जनितं रूपं भेद इति श्रविशेषात् स्वकारणानां कार्याणि सर्वाणि व्यावृत्तयः स्युः । भेदस्यार्थान्तरत्वे च ततोऽप्यस्य भेदोस्तीति भेदोपाधित्वात् द्रव्यान्तरवत् न भेदः स्यात् ।
स्यात् ।
न तदेवेत्यादिना द्वितीयपक्षोपन्यासः । न तदेव पलाशस्वलक्षणमेव तस्य भेदस्य रूपं (1) रूपं च स्वभावश्चासौ भेद इष्यते । ततोन्यदेव पलाशाद् व्यावृत्तिरूपं स्यात् । यद्वा रूपं चान्यदेव भेदस्य स्यात् । ततश्चान्यत्त्वात् कारणात् । भावः पलाशात्मकस्तस्मादवृक्षव्यावृत्तिरूपाद् व्यावर्त्तेत । ततः कारणात् । ऊष्मा^दित्यवृक्षात् तस्य पलाशस्य भेद इति न स्यात् । यस्माद् यत् खलु वस्तु । यतो भेदो यद्भेदस्तस्माद् व्यावर्त्तते । तत्तदेव भवति । अवृक्षव्यावृत्तेर्भवति । अवृक्षव्यावृत्तेरवृक्षनिवृत्तिरूपाया निवर्त्तमानम्पलाशस्वलक्षणमवृक्षमिव स्यादवृक्षवत् । मा वा भूद् वृक्षावृक्षयोरेकत्वन्तथापि सोस्य भेद इति च न स्यात् ।
यदि चायमवृक्षाद् भेदः पलाशादन्यः स्यात्तदयम वृक्षाद् भेदोस्य पलाशस्य सम्बन्धीति न स्यात् । न हीत्याद्यस्येव समर्थनं । अन्यः स्वतन्त्रोन्यस्य सम्बन्धी भेदो धर्मरूपो भवति । सति वेति सम्बन्धित्वेभ्युपगम्यमाने वा । सम्बन्धः कार्यकारणभावोङ्गीकर्त्तव्यः । भिन्नयोः कार्यकारणमन्तरेण सम्बन्धायोगात् । तत्र व्यावृत्तिमान् कारणं व्यावृत्तिः कार्यं । इति हेतो रूपं वस्त्वन्तरमेव तज्जनितन्तेन व्यावृत्तिमता स्वलक्षणेन जनितं भेद इति । पादा ( ? पदा) र्थान्तरस्य नाम कृतन्तस्मात् कार्यत्वेनाभिमताद् भेदाख्यात् पदार्थाद् अविशेषादन्यत्रापि कारणानां यानि कार्याणि तानि सर्वाणि व्यावृत्तयो भेदाः स्युः । न चैवं । तदान्यत्रापि भेदाभिमते भेद इति व्यपदेशो मा भूत् ।
95a
अथ कार्यं भेद इति नोच्यते किन्तु भेदः कार्य इत्युच्यते । तदाप्याह । अर्थान्तरत्वे च भेदस्याभ्युपगम्यमाने । ततोपि व्यावृत्तिमतोप्यस्य भेदस्य भेदोस्ति । अन्यथा भेदस्यार्थान्तरत्वमेव न स्यात् । ततश्च पलाशस्यावृक्षाद् यो भेदस्तस्य भेदस्य पलाशाद् भेद इति कृत्वा स भेदो भेदोपाधिः स पलाशाद् भेदः । उपाधिविशेषणं यस्य भेदस्य स भेदोपाधिस्तद्भावस्तत्त्वन्तस्मादसाववृक्षाद् भेदः पलाशस्य न भेदः स्यात् । द्रव्यान्तरवत् । यथा हि द्रव्यान्तरं घटादिक