________________
४. सामान्यचिन्ता -
तेनैवापरमार्थोसावन्यथा न हि वस्तुनः ॥१३०॥ व्यावृत्तिर्वस्तु भवति; भेदोस्यास्मादितोरणात्।
रूपं हि परमार्थः स भेदी यदि रूपं स्यात् तद्रूपं अतद्रूपं वा। ताद्रूप्य . नान्यस्ततो भिद्यते। न च तस्य रूपं अन्यस्य स्यात्। .
भावः । नास्य व्यतिरिक्तमव्यतिरिक्तम्वा रूपमस्तीति कृत्वा। कथन्तहि भावानां विजातीयाद भेद इति प्रतीतिरिति चेदाह। रूपवत्त्वेन भावसम्बन्धित्वेन तस्य भेदस्य केवलन्दर्शनम्प्रतीतिविप्लवो भ्रान्तिः (1) केवलमिति तथाभूतबाह्यनिरपेक्षं (1) का रिका या मप्येवं व्याख्यानं द्रष्टव्यं ।
ननु यदि रूपवत्त्वेन दर्शनं कथं बुद्धिविप्लव इत्यत आह। तेनैवेत्यादि। रूपवत्त्वेन भावसम्बन्धित्वेन यद्दर्शनम्भेदस्य तेनैवापरमार्थो न वस्तुभूतोऽसत्त्वात् । असाविति भेद: प्रसज्यरूपः । अन्यथेत्येवमनिष्यमाणे। न हि वस्तुनः स्वलक्षणस्य सम्बन्धिनी व्यावृत्तिर्वस्तु भवति। किं कारणं (1) भेदोस्यास्मादितोरणात् ।
एतदुक्तम्भवति। यदि हि सा वस्तुभूता स्यात् तदा वृक्षेभ्योऽवृक्षव्यावृत्तिरभिन्ना भिन्ना वा स्यात् । यद्यभिन्ना। अस्मादवृक्षाद् वृक्षस्य भेद इति व्यतिरेक'- 94b प्रतीतिर्न स्यात्। पलाशाच्चैकस्मादवृक्षव्यावृत्तेरभिन्नत्वात्। धवादीनामवृक्षव्यावृत्तिर्न स्यात्। पलाशवत् तत्स्वभावाया व्यावृत्तेस्तेष्वननुगमात् । अथ पलाशाद् भिन्ना सा। तत्राप्यवृक्षव्यावृत्तेः सकाशात् पलाशस्य व्यावृत्तिः स्यादवृक्षव्यावृत्तेश्च व्यावर्त्तमानस्य पलाशस्यावृक्षरूपता स्यादवृक्षवत् । ततश्चास्मादवृक्षादस्य वृक्षस्य भेद इति प्रतीतिर्न स्यादिष्यते च। तस्मात्तद्व्यावृत्तिन वस्तु। भेदोस्यास्मादितीरणादुच्चारणादित्यर्थः। उपलक्षणं चैतत् प्रतीतेरपि ग्रहणं।
रूपं हीत्यादिना व्याचष्टे । हि यस्मात् । रूपं किमुच्यते परमार्थः। वस्तुस्वभावः। भेदोन्यव्यावृत्तिर्यदि रूपं स्याद् यदि स्वभावो भवेत् । तदित्यवृक्षाद् व्यावृत्तिरूपं । तद्रूपमिति यत्तद्वयावृत्तं पलाशस्वलक्षणं तदात्मकं । अतद्रूपं वेति ततोन्यदित्यर्थः। वस्तुनस्तत्त्वान्यत्त्वानतिक्रमादित्यर्थः ।
ताद्रूप्य इत्यादिना प्रथमपक्षे दोषमाह। ताद्रूप्ये पलाशादन्यत्त्वे यया व्यावृत्त्या सामान्यभूतया सर्वे वृक्षभेदाः व्यावृत्ता दृष्टास्तस्यास्ताद्रूप्ये पलाशादनन्यत्वेभ्युपगम्यमाने तदेव पलाशस्वलक्षणमेव व्यावृत्तिरिति कृत्वा पलाश एवावृक्षाद् भिन्नः प्राप्नोति नान्यो धवादिः। तत इत्यवृक्षाद् भिद्येत। किडस्कारणमित्याह। न हीत्यादि। अवृक्षाद्धि व्यावृत्तिः पलाशस्यैव रूपं । न च तस्य रूपमन्यस्य धवादेः