________________
प्रमाणवार्तिकस्ववृत्तिटीका ( १।१२६ )
परिहारस्यापि क्वचित् स्थित्यभावे निष्फलचोदनत्वात् ।
स चायं भेदोऽरूपः । रूपवत्वेन केवलं दर्शनं बुद्धिविप्लवः ।
२५४
निरस्तमिष्टत्वात् । अनन्वयो वान्वयरहितो वा व्यतिरेको न हीति सम्बन्धः । तत्र विशेषस्य प्रतिषेधो व्यतिरेकः । तत्रार्थाच्छेषगतिरन्वयः । एकान्वय इत्यादिनैतदेव समर्थ्यते । एकान्वयस्येत्येकस्य विधानस्य परिहार्याभावे व्यवच्छेद्याभावे निष्फलचोदनत्वात् ।
यदि वृक्षञ्छिन्धीत्युक्तेर्थादवृक्षस्य न तत्र व्यवच्छेदस्तदा वृक्षशब्दप्रयोगो 94a निष्फलः स्यात् । यद्वा किम्वृक्षञ्छिनद्मि उतान्यमिति श्रोतुजिज्ञासायां सत्यां वृक्षञ्छिन्धीत्युक्तेन्यनिषेधः प्रतीयत एवान्यथा परिहार्याभावे निष्फलमभिधानं स्यात्। तथा यदाप्याकांक्षारहितः श्रोता वृक्षञ्छिन्धीति शब्देन चोद्यते तदापि वृक्ष एव प्रवर्त्तते नान्यत्र (।) वक्ता हि वृक्ष एवायं प्रवर्त्तते नान्यत्रेत्यनेनाभिप्रायेण शब्दं प्रयुक्ते । विवक्षानुगमनं च ध्वनेः । तस्मान्ना - स्ति व्यतिरेकरहितोन्वयस्तर्थकपरिहारस्येत्येकप्रतिषेधस्य प्रतिषेधस्यैवैकस्येत्यर्थः । क्वचिदिति प्रतिषेधेन विषयीकृते वस्तुनि स्थित्यभावे निष्फलचोदनत्वात् । तथा हि सुराविषयस्य पानस्य प्रतिषेधे । यदि सुराया अन्यत्रापि पानस्य नावस्थानं स्यात् । तदा सर्वस्मिन् विषये निषिद्धस्य पानस्य विशेषे प्रतिषेधोनर्थकः । तत्र सुरा ( 5 ) पेयेति' सुरापानमात्रस्य प्रतिषेधे चरितार्थत्वाद् वाक्यस्य यद्यप्युदकादिपानं शब्देन न विधीयते । तथापि सुराया अन्यत्र पानस्यावस्थानन्न निवार्यत इत्यर्थादन्वयगतिरन्यथा सुराग्रहणमनर्थकं स्यात् । यद्वा किमुदकादिवत् सुरा पातव्या किम्वा नेति प्रश्ने सुरा न पातव्येत्युक्ते सुरैवेति प्रतीतेर्नोदकादिपानविधानं प्रकृतन्निषेध्यते ( 1 ) तेन सर्वत्र विधि प्रतिषेधरूपस्यैव शब्दार्थत्वं ।
कस्तर्हि विधिप्रतिषेधपर्युदासवाक्यानाम्भेदः । महान्भेदः । विधायकं हि वाक्यविधि प्राधान्येनाभिधायान्यनिषेधकमर्थात् । निषेधकं च निषेधं प्राधान्येनाभिधायार्थादन्यविधानमाह । पर्युदासप्रतिपादकन्तु वाक्यं प्रतिषेधपूर्वकमन्यविधानं प्राधान्येनाहेत्यस्त्येव विशेष इति ।
ननु यद्यन्यनिवृत्तिरर्थात् प्रतीयते सैव तहि पारमार्थिकी भावानामस्ति या विशिष्टा गृह्यन्त इत्येवं कस्मान्नेष्यते ( 1 ) किं पुनरेवन्तद्गतेस्तदुपाधित्वात् तद्विशिष्टो गत इति व्याख्यायत इत्यत आह । स चायमित्यादि (1) यो भेदो व्यावृत्तिलक्षण आचार्य दिऊ ना गे न विशेषणत्वेनाभिमतः स चायमरूपो निःस्व