________________
४. सामान्यचिन्ता
२५३ व्यवहाराङ्गतां शब्दानां दर्शयन् "तव्यावृत्त्या गम्यते। "इत्यतोऽपि व्यतिरेक उक्तः। अत एव शब्दे तदन्यव्यावृत्तिः स्वार्थाभिधानं च न व्यापारद्वयम्। स्वार्थस्याभिधानादेव तदन्यव्यावृत्तिगतिः स्वार्थस्य भेदरूपत्वात् । न ह्यन्वयोऽव्यावृत्तिमतो नाप्यनन्वयिनो व्यावृत्तिः। एकान्वयस्य परिहार्याभावे, तथैक- 457b
अन्यव्यावृत्तिगतिः सा व्यतिरेकगतिः (1) एवमन्वयव्यतिरेकाभ्यां शब्दोर्थवान् भवति (1) तेनान्वयव्यतिरेकचोदनयान्वयस्य साक्षादर्थात्तु व्यतिरेकस्य चोदना द्रष्टव्या। तया चोदनया व्यवहाराङ्गतां शब्दानां दर्शयन्नाचार्य दिङ ना ग आह "तद्वयावृत्त्या गम्यते वस्तुभाग" इति । तथा तद्विशिष्टो वेत्याह । व्यावृत्तिशब्देन व्यतिरेक उक्तः। वस्तुभागशब्देनान्वयः । अनेनैतदपि व्याख्यातं शब्दान्तरापोहं कुर्वन्ती श्रुतिः स्वार्थमभिधत्त इत्यर्थः । तत्र योसावेकगतो भेदो विकल्पबुद्धिप्रतिभासी व्याख्यातः स एव स्वार्थस्तत्रार्थान्तरव्यावृत्तिरर्थान्तरापोहः प्रसज्यप्रतिषेधलक्षणस्तं कुर्वतीत्यर्थाद् गमयन्तीत्यर्थः ।
यदि चान्यनिवृत्तिपुरस्सरैव वृक्षादिशब्दप्रवृत्ति स्तदान्वयव्यतिरेकचोदनयेत्यादिव्याख्यानं व्यर्थं स्यात् ।
तस्माद्विधिरेव शब्दार्थः। ... यत एवैकभेदाभिधानेऽर्थादन्यव्यावृत्तिगतिरत एवेत्यादि। स्वार्थस्य भेदरूपत्वादिति । यो वृक्षशब्दस्यार्थः शाखादिमदाकारः। विकल्पप्रतिभासी स भेदरूपः । भिन्नस्वभावोऽभेदाकारव्यावृत्तत्वात् स्वयं । अतो भेदरूपस्य स्वार्थस्याभिधानादेवार्थादन्यव्यावृत्ति गतिरेवं ह्यवृक्षाद् भेदरूपस्यैव वृक्षार्थस्य गतिर्भवेत् ।
यद्यर्थात् तत्र वृक्षनिवृत्तिर्भवतीति। तस्मात् स्वार्थाभिधानमेव शब्दस्य व्यापारोन्यव्यावर्त्तनन्त्वर्थादिति न शब्दस्य व्यापारद्वयं ।
नन विधायकेन वाक्येनान्वयमात्रम्प्रतिपाद्यते नान्यस्य विधानं प्रतिषेधो वा। निषेधकेनापि निषेधमात्रमेव केवलं प्रतीयते नान्यस्य विधानं प्रतिषेधो वेत्यत आह ।
न ह्यन्वय इत्यादि। प्रतिनियतस्यार्थस्य विधानमन्वयो यथा वृक्षंच्छिन्धीति। तत्रावृक्षस्यार्थानिवृत्तिर्व्यतिरेकः। स यत्र न विद्यते सोव्यतिरेक एवं भूतोन्वयो न मे स्ति । किन्तु सर्व एव स व्यतिरेकः। तेन यदुच्यते भट्टो द्यो त क रा भ्यां (1)
“विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते। न भवेद् व्यतिरेकोपि तस्य तत्पूर्वको ह्यसावि"ति'
1 Slokavārtika.